Ṛk 7.40.2
Saṃhitā
मि॒त्रस्तन्नो॒ वरु॑णो॒ रोद॑सी च॒ द्युभ॑क्त॒मिंद्रो॑ अर्य॒मा द॑दातु ।
दिदे॑ष्टु दे॒व्यदि॑ती॒ रेक्णो॑ वा॒युश्च॒ यन्नि॑यु॒वैते॒ भग॑श्च ॥
मित्रस् तन् नो वरुणो रोदसी च द्युभक्तम् इन्द्रो अर्यमा ददातु |
दिदेष्टु देव्य् अदिती रेक्णो वायुश् च यन् नियुवैते भगश् च ||
mitrástánno váruṇo ródasī ca dyúbhaktamíndro aryamā́ dadātu ǀ
dídeṣṭu devyáditī rékṇo vāyúśca yánniyuváite bhágaśca ǁ
mitras tan no varuṇo rodasī ca dyubhaktam indro aryamā dadātu |
dideṣṭu devy aditī rekṇo vāyuś ca yan niyuvaite bhagaś ca ||
Padapāṭha
मि॒त्रः । तत् । नः॒ । वरु॑णः । रोद॑सी॒ इति॑ । च॒ । द्युऽभ॑क्तम् । इन्द्रः॑ । अ॒र्य॒मा । द॒दा॒तु॒ ।
दिदे॑ष्टु । दे॒वी । अदि॑तिः । रेक्णः॑ । वा॒युः । च॒ । यत् । नि॒यु॒वैते॒ इति॑ नि॒ऽयु॒वैते॑ । भगः॑ । च॒ ॥
मित्रः । तत् । नः । वरुणः । रोदसी इति । च । द्युऽभक्तम् । इन्द्रः । अर्यमा । ददातु ।
दिदेष्टु । देवी । अदितिः । रेक्णः । वायुः । च । यत् । नियुवैते इति निऽयुवैते । भगः । च ॥
mitráḥ ǀ tát ǀ naḥ ǀ váruṇaḥ ǀ ródasī íti ǀ ca ǀ dyú-bhaktam ǀ índraḥ ǀ aryamā́ ǀ dadātu ǀ
dídeṣṭu ǀ devī́ ǀ áditiḥ ǀ rékṇaḥ ǀ vāyúḥ ǀ ca ǀ yát ǀ niyuváite íti ni-yuváite ǀ bhágaḥ ǀ ca ǁ
mitraḥ ǀ tat ǀ naḥ ǀ varuṇaḥ ǀ rodasī iti ǀ ca ǀ dyu-bhaktam ǀ indraḥ ǀ aryamā ǀ dadātu ǀ
dideṣṭu ǀ devī ǀ aditiḥ ǀ rekṇaḥ ǀ vāyuḥ ǀ ca ǀ yat ǀ niyuvaite iti ni-yuvaite ǀ bhagaḥ ǀ ca ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.040.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.07.02
- Maṇḍala · Anuvāka · Ṛk
- 07.03.074
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.