Ṛk 7.40.4
Saṃhitā
अ॒यं हि ने॒ता वरु॑ण ऋ॒तस्य॑ मि॒त्रो राजा॑नो अर्य॒मापो॒ धुः ।
सु॒हवा॑ दे॒व्यदि॑तिरन॒र्वा ते नो॒ अंहो॒ अति॑ पर्ष॒न्नरि॑ष्टान् ॥
अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः |
सुहवा देव्य् अदितिर् अनर्वा ते नो अंहो अति पर्षन्न् अरिष्टान् ||
ayám hí netā́ váruṇa ṛtásya mitró rā́jāno aryamā́po dhúḥ ǀ
suhávā devyáditiranarvā́ té no áṃho áti parṣannáriṣṭān ǁ
ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ |
suhavā devy aditir anarvā te no aṃho ati parṣann ariṣṭān ||
Padapāṭha
अ॒यम् । हि । ने॒ता । वरु॑णः । ऋ॒तस्य॑ । मि॒त्रः । राजा॑नः । अ॒र्य॒मा । अपः॑ । धुरिति॒ धुः ।
सु॒ऽहवा॑ । दे॒वी । अदि॑तिः । अ॒न॒र्वा । ते । नः॒ । अंहः॑ । अति॑ । प॒र्ष॒न् । अरि॑ष्टान् ॥
अयम् । हि । नेता । वरुणः । ऋतस्य । मित्रः । राजानः । अर्यमा । अपः । धुरिति धुः ।
सुऽहवा । देवी । अदितिः । अनर्वा । ते । नः । अंहः । अति । पर्षन् । अरिष्टान् ॥
ayám ǀ hí ǀ netā́ ǀ váruṇaḥ ǀ ṛtásya ǀ mitráḥ ǀ rā́jānaḥ ǀ aryamā́ ǀ ápaḥ ǀ dhúríti dhúḥ ǀ
su-hávā ǀ devī́ ǀ áditiḥ ǀ anarvā́ ǀ té ǀ naḥ ǀ áṃhaḥ ǀ áti ǀ parṣan ǀ áriṣṭān ǁ
ayam ǀ hi ǀ netā ǀ varuṇaḥ ǀ ṛtasya ǀ mitraḥ ǀ rājānaḥ ǀ aryamā ǀ apaḥ ǀ dhuriti dhuḥ ǀ
su-havā ǀ devī ǀ aditiḥ ǀ anarvā ǀ te ǀ naḥ ǀ aṃhaḥ ǀ ati ǀ parṣan ǀ ariṣṭān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.040.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.07.04
- Maṇḍala · Anuvāka · Ṛk
- 07.03.076
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.