Ṛk 7.40.7
Saṃhitā
नू रोद॑सी अ॒भिष्टु॑ते॒ वसि॑ष्ठैर्ऋ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः ।
यच्छं॑तु चं॒द्रा उ॑प॒मं नो॑ अ॒र्कं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
नू रोदसी अभिष्टुते वसिष्ठैर् ऋतावानो वरुणो मित्रो अग्निः |
यच्छन्तु चन्द्रा उपमं नो अर्कं यूयम् पात स्वस्तिभिः सदा नः ||
nū́ ródasī abhíṣṭute vásiṣṭhairṛtā́vāno váruṇo mitró agníḥ ǀ
yácchantu candrā́ upamám no arkám yūyám pāta svastíbhiḥ sádā naḥ ǁ
nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ |
yacchantu candrā upamaṃ no arkaṃ yūyam pāta svastibhiḥ sadā naḥ ||
Padapāṭha
नु । रोद॑सी॒ इति॑ । अ॒भिस्तु॑ते॒ इत्य॒भिऽस्तु॑ते । वसि॑ष्ठैः । ऋ॒तऽवा॑नः । वरु॑णः । मि॒त्रः । अ॒ग्निः ।
यच्छ॑न्तु । च॒न्द्राः । उ॒प॒ऽमम् । नः॒ । अ॒र्कम् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
नु । रोदसी इति । अभिस्तुते इत्यभिऽस्तुते । वसिष्ठैः । ऋतऽवानः । वरुणः । मित्रः । अग्निः ।
यच्छन्तु । चन्द्राः । उपऽमम् । नः । अर्कम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥
nú ǀ ródasī íti ǀ abhístute ítyabhí-stute ǀ vásiṣṭhaiḥ ǀ ṛtá-vānaḥ ǀ váruṇaḥ ǀ mitráḥ ǀ agníḥ ǀ
yácchantu ǀ candrā́ḥ ǀ upa-mám ǀ naḥ ǀ arkám ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ
nu ǀ rodasī iti ǀ abhistute ityabhi-stute ǀ vasiṣṭhaiḥ ǀ ṛta-vānaḥ ǀ varuṇaḥ ǀ mitraḥ ǀ agniḥ ǀ
yacchantu ǀ candrāḥ ǀ upa-mam ǀ naḥ ǀ arkam ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.040.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.4.07.07
- Maṇḍala · Anuvāka · Ṛk
- 07.03.079
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.