Ṛk 7.88.4
Saṃhitā
वसि॑ष्ठं ह॒ वरु॑णो ना॒व्याधा॒दृषिं॑ चकार॒ स्वपा॒ महो॑भिः ।
स्तो॒तारं॒ विप्रः॑ सुदिन॒त्वे अह्नां॒ यान्नु द्याव॑स्त॒तन॒न्यादु॒षासः॑ ॥
वसिष्ठं ह वरुणो नाव्य् आधाद् ऋषिं चकार स्वपा महोभिः |
स्तोतारं विप्रः सुदिनत्वे अह्नां यान् नु द्यावस् ततनन् याद् उषासः ||
vásiṣṭham ha váruṇo nāvyā́dhādṛ́ṣim cakāra svápā máhobhiḥ ǀ
stotā́ram vípraḥ sudinatvé áhnām yā́nnú dyā́vastatánanyā́duṣā́saḥ ǁ
vasiṣṭhaṃ ha varuṇo nāvy ādhād ṛṣiṃ cakāra svapā mahobhiḥ |
stotāraṃ vipraḥ sudinatve ahnāṃ yān nu dyāvas tatanan yād uṣāsaḥ ||
Padapāṭha
वसि॑ष्ठम् । ह॒ । वरु॑णः । ना॒वि । आ । अ॒धा॒त् । ऋषि॑म् । च॒का॒र॒ । सु॒ऽअपाः॑ । महः॑ऽभिः ।
स्तो॒तार॑म् । विप्रः॑ । सु॒दि॒न॒ऽत्वे । अह्ना॑म् । यात् । नु । द्यावः॑ । त॒तन॑न् । यात् । उ॒षसः॑ ॥
वसिष्ठम् । ह । वरुणः । नावि । आ । अधात् । ऋषिम् । चकार । सुऽअपाः । महःऽभिः ।
स्तोतारम् । विप्रः । सुदिनऽत्वे । अह्नाम् । यात् । नु । द्यावः । ततनन् । यात् । उषसः ॥
vásiṣṭham ǀ ha ǀ váruṇaḥ ǀ nāví ǀ ā́ ǀ adhāt ǀ ṛ́ṣim ǀ cakāra ǀ su-ápāḥ ǀ máhaḥ-bhiḥ ǀ
stotā́ram ǀ vípraḥ ǀ sudina-tvé ǀ áhnām ǀ yā́t ǀ nú ǀ dyā́vaḥ ǀ tatánan ǀ yā́t ǀ uṣásaḥ ǁ
vasiṣṭham ǀ ha ǀ varuṇaḥ ǀ nāvi ǀ ā ǀ adhāt ǀ ṛṣim ǀ cakāra ǀ su-apāḥ ǀ mahaḥ-bhiḥ ǀ
stotāram ǀ vipraḥ ǀ sudina-tve ǀ ahnām ǀ yāt ǀ nu ǀ dyāvaḥ ǀ tatanan ǀ yāt ǀ uṣasaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.088.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.10.04
- Maṇḍala · Anuvāka · Ṛk
- 07.05.111
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.