Ṛk 7.88.6
Saṃhitā
य आ॒पिर्नित्यो॑ वरुण प्रि॒यः संत्वामागां॑सि कृ॒णव॒त्सखा॑ ते ।
मा त॒ एन॑स्वंतो यक्षिन्भुजेम यं॒धि ष्मा॒ विप्रः॑ स्तुव॒ते वरू॑थं ॥
य आपिर् नित्यो वरुण प्रियः सन् त्वाम् आगांसि कृणवत् सखा ते |
मा त एनस्वन्तो यक्षिन् भुजेम यन्धि ष्मा विप्र स्तुवते वरूथम् ||
yá āpírnítyo varuṇa priyáḥ sántvā́mā́gāṃsi kṛṇávatsákhā te ǀ
mā́ ta énasvanto yakṣinbhujema yandhí ṣmā vípraḥ stuvaté várūtham ǁ
ya āpir nityo varuṇa priyaḥ san tvām āgāṃsi kṛṇavat sakhā te |
mā ta enasvanto yakṣin bhujema yandhi ṣmā vipra stuvate varūtham ||
Padapāṭha
यः । आ॒पिः । नित्यः॑ । व॒रु॒ण॒ । प्रि॒यः । सन् । त्वाम् । आगां॑सि । कृ॒णव॑त् । सखा॑ । ते॒ ।
मा । ते॒ । एन॑स्वन्तः । य॒क्षि॒न् । भु॒जे॒म॒ । य॒न्धि । स्म॒ । विप्रः॑ । स्तु॒व॒ते । वरू॑थम् ॥
यः । आपिः । नित्यः । वरुण । प्रियः । सन् । त्वाम् । आगांसि । कृणवत् । सखा । ते ।
मा । ते । एनस्वन्तः । यक्षिन् । भुजेम । यन्धि । स्म । विप्रः । स्तुवते । वरूथम् ॥
yáḥ ǀ āpíḥ ǀ nítyaḥ ǀ varuṇa ǀ priyáḥ ǀ sán ǀ tvā́m ǀ ā́gāṃsi ǀ kṛṇávat ǀ sákhā ǀ te ǀ
mā́ ǀ te ǀ énasvantaḥ ǀ yakṣin ǀ bhujema ǀ yandhí ǀ sma ǀ vípraḥ ǀ stuvaté ǀ várūtham ǁ
yaḥ ǀ āpiḥ ǀ nityaḥ ǀ varuṇa ǀ priyaḥ ǀ san ǀ tvām ǀ āgāṃsi ǀ kṛṇavat ǀ sakhā ǀ te ǀ
mā ǀ te ǀ enasvantaḥ ǀ yakṣin ǀ bhujema ǀ yandhi ǀ sma ǀ vipraḥ ǀ stuvate ǀ varūtham ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.088.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.10.06
- Maṇḍala · Anuvāka · Ṛk
- 07.05.113
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.