Ṛk 7.88.5
Saṃhitā
क्व१॒॑ त्यानि॑ नौ स॒ख्या ब॑भूवुः॒ सचा॑वहे॒ यद॑वृ॒कं पु॒रा चि॑त् ।
बृ॒हंतं॒ मानं॑ वरुण स्वधावः स॒हस्र॑द्वारं जगमा गृ॒हं ते॑ ॥
क्व त्यानि नौ सख्या बभूवुः सचावहे यद् अवृकम् पुरा चित् |
बृहन्तम् मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते ||
kvá tyā́ni nau sakhyā́ babhūvuḥ sácāvahe yádavṛkám purā́ cit ǀ
bṛhántam mā́nam varuṇa svadhāvaḥ sahásradvāram jagamā gṛhám te ǁ
kva tyāni nau sakhyā babhūvuḥ sacāvahe yad avṛkam purā cit |
bṛhantam mānaṃ varuṇa svadhāvaḥ sahasradvāraṃ jagamā gṛhaṃ te ||
Padapāṭha
क्व॑ । त्यानि॑ । नौ॒ । स॒ख्या । ब॒भू॒वुः॒ । सचा॑वहे॒ इति॑ । यत् । अ॒वृ॒कम् । पु॒रा । चि॒त् ।
बृ॒हन्त॑म् । मान॑म् । व॒रु॒ण॒ । स्व॒धा॒ऽवः॒ । स॒हस्र॑ऽद्वारम् । ज॒ग॒म॒ । गृ॒हम् । ते॒ ॥
क्व । त्यानि । नौ । सख्या । बभूवुः । सचावहे इति । यत् । अवृकम् । पुरा । चित् ।
बृहन्तम् । मानम् । वरुण । स्वधाऽवः । सहस्रऽद्वारम् । जगम । गृहम् । ते ॥
kvá ǀ tyā́ni ǀ nau ǀ sakhyā́ ǀ babhūvuḥ ǀ sácāvahe íti ǀ yát ǀ avṛkám ǀ purā́ ǀ cit ǀ
bṛhántam ǀ mā́nam ǀ varuṇa ǀ svadhā-vaḥ ǀ sahásra-dvāram ǀ jagama ǀ gṛhám ǀ te ǁ
kva ǀ tyāni ǀ nau ǀ sakhyā ǀ babhūvuḥ ǀ sacāvahe iti ǀ yat ǀ avṛkam ǀ purā ǀ cit ǀ
bṛhantam ǀ mānam ǀ varuṇa ǀ svadhā-vaḥ ǀ sahasra-dvāram ǀ jagama ǀ gṛham ǀ te ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.088.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.10.05
- Maṇḍala · Anuvāka · Ṛk
- 07.05.112
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.