Ṛk 7.88.7
Saṃhitā
ध्रु॒वासु॑ त्वा॒सु क्षि॒तिषु॑ क्षि॒यंतो॒ व्य१॒॑स्मत्पाशं॒ वरु॑णो मुमोचत् ।
अवो॑ वन्वा॒ना अदि॑तेरु॒पस्था॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्य् अस्मत् पाशं वरुणो मुमोचत् |
अवो वन्वाना अदितेर् उपस्थाद् यूयम् पात स्वस्तिभिः सदा नः ||
dhruvā́su tvāsú kṣitíṣu kṣiyánto vyásmátpā́śam váruṇo mumocat ǀ
ávo vanvānā́ áditerupásthādyūyám pāta svastíbhiḥ sádā naḥ ǁ
dhruvāsu tvāsu kṣitiṣu kṣiyanto vy asmat pāśaṃ varuṇo mumocat |
avo vanvānā aditer upasthād yūyam pāta svastibhiḥ sadā naḥ ||
Padapāṭha
ध्रु॒वासु॑ । त्वा॒ । आ॒सु । क्षि॒तिषु॑ । क्षि॒यन्तः॑ । वि । अ॒स्मत् । पाश॑म् । वरु॑णः । मु॒मो॒च॒त् ।
अवः॑ । व॒न्वा॒नाः । अदि॑तेः । उ॒पऽस्था॑त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
ध्रुवासु । त्वा । आसु । क्षितिषु । क्षियन्तः । वि । अस्मत् । पाशम् । वरुणः । मुमोचत् ।
अवः । वन्वानाः । अदितेः । उपऽस्थात् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥
dhruvā́su ǀ tvā ǀ āsú ǀ kṣitíṣu ǀ kṣiyántaḥ ǀ ví ǀ asmát ǀ pā́śam ǀ váruṇaḥ ǀ mumocat ǀ
ávaḥ ǀ vanvānā́ḥ ǀ áditeḥ ǀ upá-sthāt ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ
dhruvāsu ǀ tvā ǀ āsu ǀ kṣitiṣu ǀ kṣiyantaḥ ǀ vi ǀ asmat ǀ pāśam ǀ varuṇaḥ ǀ mumocat ǀ
avaḥ ǀ vanvānāḥ ǀ aditeḥ ǀ upa-sthāt ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.088.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.6.10.07
- Maṇḍala · Anuvāka · Ṛk
- 07.05.114
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.