Ṛk 7.4.2
Saṃhitā
स गृत्सो॑ अ॒ग्निस्तरु॑णश्चिदस्तु॒ यतो॒ यवि॑ष्ठो॒ अज॑निष्ट मा॒तुः ।
सं यो वना॑ यु॒वते॒ शुचि॑द॒न्भूरि॑ चि॒दन्ना॒ समिद॑त्ति स॒द्यः ॥
स गृत्सो अग्निस् तरुणश् चिद् अस्तु यतो यविष्ठो अजनिष्ट मातुः |
सं यो वना युवते शुचिदन् भूरि चिद् अन्ना सम् इद् अत्ति सद्यः ||
sá gṛ́tso agnístáruṇaścidastu yáto yáviṣṭho ájaniṣṭa mātúḥ ǀ
sám yó vánā yuváte śúcidanbhū́ri cidánnā sámídatti sadyáḥ ǁ
sa gṛtso agnis taruṇaś cid astu yato yaviṣṭho ajaniṣṭa mātuḥ |
saṃ yo vanā yuvate śucidan bhūri cid annā sam id atti sadyaḥ ||
Padapāṭha
सः । गृत्सः॑ । अ॒ग्निः । तरु॑णः । चि॒त् । अ॒स्तु॒ । यतः॑ । यवि॑ष्ठः । अज॑निष्ट । मा॒तुः ।
सम् । यः । वना॑ । यु॒वते॑ । शुचि॑ऽदन् । भूरि॑ । चि॒त् । अन्ना॑ । सम् । इत् । अ॒त्ति॒ । स॒द्यः ॥
सः । गृत्सः । अग्निः । तरुणः । चित् । अस्तु । यतः । यविष्ठः । अजनिष्ट । मातुः ।
सम् । यः । वना । युवते । शुचिऽदन् । भूरि । चित् । अन्ना । सम् । इत् । अत्ति । सद्यः ॥
sáḥ ǀ gṛ́tsaḥ ǀ agníḥ ǀ táruṇaḥ ǀ cit ǀ astu ǀ yátaḥ ǀ yáviṣṭhaḥ ǀ ájaniṣṭa ǀ mātúḥ ǀ
sám ǀ yáḥ ǀ vánā ǀ yuváte ǀ śúci-dan ǀ bhū́ri ǀ cit ǀ ánnā ǀ sám ǀ ít ǀ atti ǀ sadyáḥ ǁ
saḥ ǀ gṛtsaḥ ǀ agniḥ ǀ taruṇaḥ ǀ cit ǀ astu ǀ yataḥ ǀ yaviṣṭhaḥ ǀ ajaniṣṭa ǀ mātuḥ ǀ
sam ǀ yaḥ ǀ vanā ǀ yuvate ǀ śuci-dan ǀ bhūri ǀ cit ǀ annā ǀ sam ǀ it ǀ atti ǀ sadyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.004.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.05.02
- Maṇḍala · Anuvāka · Ṛk
- 07.01.048
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.