Ṛk 7.4.8
Saṃhitā
न॒हि ग्रभा॒यार॑णः सु॒शेवो॒ऽन्योद॑र्यो॒ मन॑सा॒ मंत॒वा उ॑ ।
अधा॑ चि॒दोकः॒ पुन॒रित्स ए॒त्या नो॑ वा॒ज्य॑भी॒षाळे॑तु॒ नव्यः॑ ॥
नहि ग्रभायारणः सुशेवो ऽन्योदर्यो मनसा मन्तवा उ |
अधा चिद् ओकः पुनर् इत् स एत्य् आ नो वाज्य् अभीषाऌ एतु नव्यः ||
nahí grábhāyā́raṇaḥ suśévo’nyódaryo mánasā mántavā́ u ǀ
ádhā cidókaḥ púnarítsá etyā́ no vājyábhīṣā́ḷetu návyaḥ ǁ
nahi grabhāyāraṇaḥ suśevo 'nyodaryo manasā mantavā u |
adhā cid okaḥ punar it sa ety ā no vājy abhīṣāḷ etu navyaḥ ||
Padapāṭha
न॒हि । ग्रभा॑य । अर॑णः । सु॒ऽशेवः॑ । अ॒न्यऽउ॑दर्यः । मन॑सा । मन्त॒वै । ऊं॒ इति॑ ।
अध॑ । चि॒त् । ओकः॑ । पुनः॑ । इत् । सः । ए॒ति॒ । आ । नः॒ । वा॒जी । अ॒भी॒षाट् । ए॒तु॒ । नव्यः॑ ॥
नहि । ग्रभाय । अरणः । सुऽशेवः । अन्यऽउदर्यः । मनसा । मन्तवै । ऊं इति ।
अध । चित् । ओकः । पुनः । इत् । सः । एति । आ । नः । वाजी । अभीषाट् । एतु । नव्यः ॥
nahí ǀ grábhāya ǀ áraṇaḥ ǀ su-śévaḥ ǀ anyá-udaryaḥ ǀ mánasā ǀ mántavái ǀ ūṃ íti ǀ
ádha ǀ cit ǀ ókaḥ ǀ púnaḥ ǀ ít ǀ sáḥ ǀ eti ǀ ā́ ǀ naḥ ǀ vājī́ ǀ abhīṣā́ṭ ǀ etu ǀ návyaḥ ǁ
nahi ǀ grabhāya ǀ araṇaḥ ǀ su-śevaḥ ǀ anya-udaryaḥ ǀ manasā ǀ mantavai ǀ ūṃ iti ǀ
adha ǀ cit ǀ okaḥ ǀ punaḥ ǀ it ǀ saḥ ǀ eti ǀ ā ǀ naḥ ǀ vājī ǀ abhīṣāṭ ǀ etu ǀ navyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.004.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.06.03
- Maṇḍala · Anuvāka · Ṛk
- 07.01.054
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.