Ṛk 7.4.3
Saṃhitā
अ॒स्य दे॒वस्य॑ सं॒सद्यनी॑के॒ यं मर्ता॑सः श्ये॒तं ज॑गृ॒भ्रे ।
नि यो गृभं॒ पौरु॑षेयीमु॒वोच॑ दु॒रोक॑म॒ग्निरा॒यवे॑ शुशोच ॥
अस्य देवस्य संसद्य् अनीके यम् मर्तासः श्येतं जगृभ्रे |
नि यो गृभम् पौरुषेयीम् उवोच दुरोकम् अग्निर् आयवे शुशोच ||
asyá devásya saṃsádyánīke yám mártāsaḥ śyetám jagṛbhré ǀ
ní yó gṛ́bham páuruṣeyīmuvóca durókamagnírāyáve śuśoca ǁ
asya devasya saṃsady anīke yam martāsaḥ śyetaṃ jagṛbhre |
ni yo gṛbham pauruṣeyīm uvoca durokam agnir āyave śuśoca ||
Padapāṭha
अ॒स्य । दे॒वस्य॑ । स॒म्ऽसदि॑ । अनी॑के । यम् । मर्ता॑सः । श्ये॒तम् । ज॒गृ॒भ्रे ।
नि । यः । गृभ॑म् । पौरु॑षेयीम् । उ॒वोच॑ । दुः॒ऽओक॑म् । अ॒ग्निः । आ॒यवे॑ । शु॒शो॒च॒ ॥
अस्य । देवस्य । सम्ऽसदि । अनीके । यम् । मर्तासः । श्येतम् । जगृभ्रे ।
नि । यः । गृभम् । पौरुषेयीम् । उवोच । दुःऽओकम् । अग्निः । आयवे । शुशोच ॥
asyá ǀ devásya ǀ sam-sádi ǀ ánīke ǀ yám ǀ mártāsaḥ ǀ śyetám ǀ jagṛbhré ǀ
ní ǀ yáḥ ǀ gṛ́bham ǀ páuruṣeyīm ǀ uvóca ǀ duḥ-ókam ǀ agníḥ ǀ āyáve ǀ śuśoca ǁ
asya ǀ devasya ǀ sam-sadi ǀ anīke ǀ yam ǀ martāsaḥ ǀ śyetam ǀ jagṛbhre ǀ
ni ǀ yaḥ ǀ gṛbham ǀ pauruṣeyīm ǀ uvoca ǀ duḥ-okam ǀ agniḥ ǀ āyave ǀ śuśoca ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.004.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.2.05.03
- Maṇḍala · Anuvāka · Ṛk
- 07.01.049
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.