BhāgavPur, 11, 10
Select a line for its word-by-word analysis.
अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् । (२।१)
anvīkṣeta viśuddhātmā dehināṃ viṣayātmanām |
नानात्मकत्वाद् विफलस् तथा भेदात्मधीर् गुणैः ॥ (३।२)
nānātmakatvād viphalas tathā bhedātmadhīr guṇaiḥ ||
निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस् त्यजेत् । (४।१)
nivṛttaṃ karma seveta pravṛttaṃ matparas tyajet |
जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्मचोदनाम् ॥ (४।२)
jijñāsāyāṃ sampravṛtto nādriyet karmacodanām ||
यमान् अभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् । (५।१)
yamān abhīkṣṇaṃ seveta niyamān matparaḥ kvacit |
उदासीनः समं पश्यन् सर्वेष्व् अर्थम् इवात्मनः ॥ (७।२)
udāsīnaḥ samaṃ paśyan sarveṣv artham ivātmanaḥ ||
विलक्षणः स्थूलसूक्ष्माद् देहाद् आत्मेक्षिता स्वदृक् । (८।१)
vilakṣaṇaḥ sthūlasūkṣmād dehād ātmekṣitā svadṛk |
यथाग्निर् दारुणो दाह्याद् दाहको ऽन्यः प्रकाशकः ॥ (८।२)
yathāgnir dāruṇo dāhyād dāhako 'nyaḥ prakāśakaḥ ||
निरोधोत्पत्त्यणुबृहन्नानात्वं तत्कृतान् गुणान् । (९।१)
nirodhotpattyaṇubṛhannānātvaṃ tatkṛtān guṇān |
यो ऽसौ गुणैर् विरचितो देहो ऽयं पुरुषस्य हि । (१०।१)
yo 'sau guṇair viracito deho 'yaṃ puruṣasya hi |
संसारस् तन्निबन्धो ऽयं पुंसो विद्या चिदात्मनः ॥ (१०।२)
saṃsāras tannibandho 'yaṃ puṃso vidyā cidātmanaḥ ||
तस्माज् जिज्ञासयात्मानम् आत्मस्थं केवलं परम् । (११।१)
tasmāj jijñāsayātmānam ātmasthaṃ kevalaṃ param |
संगम्य निरसेद् एतद् वस्तुबुद्धिं यथाक्रमम् ॥ (११।२)
saṃgamya nirased etad vastubuddhiṃ yathākramam ||
आचार्यो ऽरणिर् आद्यः स्याद् अन्तेवास्य् उत्तरारणिः । (१२।१)
ācāryo 'raṇir ādyaḥ syād antevāsy uttarāraṇiḥ |
तत्संधानं प्रवचनं विद्यासंधिः सुखावहः ॥ (१२।२)
tatsaṃdhānaṃ pravacanaṃ vidyāsaṃdhiḥ sukhāvahaḥ ||
वैशारदी सातिविशुद्धबुद्धिर् धुनोति मायां गुणसम्प्रसूताम् । (१३।१)
vaiśāradī sātiviśuddhabuddhir dhunoti māyāṃ guṇasamprasūtām |
गुणांश् च संदह्य यदात्मम् एतत् स्वयं च शाम्यत्य् असमिद् यथाग्निः ॥ (१३।२)
guṇāṃś ca saṃdahya yadātmam etat svayaṃ ca śāmyaty asamid yathāgniḥ ||
अथैषाम् कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः । (१४।१)
athaiṣām karmakartṝṇāṃ bhoktṝṇāṃ sukhaduḥkhayoḥ |
नानात्वम् अथ नित्यत्वं लोककालागमात्मनाम् ॥ (१४।२)
nānātvam atha nityatvaṃ lokakālāgamātmanām ||
मन्यसे सर्वभावानां संस्था ह्य् औत्पत्तिकी यथा । (१५।१)
manyase sarvabhāvānāṃ saṃsthā hy autpattikī yathā |
एवम् अप्य् अङ्ग सर्वेषां देहिनां देहयोगतः । (१६।१)
evam apy aṅga sarveṣāṃ dehināṃ dehayogataḥ |
तत्रापि कर्मणां कर्तुर् अस्वातन्त्र्यं च लक्ष्यते । (१७।१)
tatrāpi karmaṇāṃ kartur asvātantryaṃ ca lakṣyate |
भोक्तुश् च दुःखसुखयोः को न्व् अर्थो विवशं भजेत् ॥ (१७।२)
bhoktuś ca duḥkhasukhayoḥ ko nv artho vivaśaṃ bhajet ||
न देहिनां सुखं किंचिद् विद्यते विदुषाम् अपि । (१८।१)
na dehināṃ sukhaṃ kiṃcid vidyate viduṣām api |
तथा च दुःखं मूढानां वृथाहंकरणं परम् ॥ (१८।२)
tathā ca duḥkhaṃ mūḍhānāṃ vṛthāhaṃkaraṇaṃ param ||
यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः । (१९।१)
yadi prāptiṃ vighātaṃ ca jānanti sukhaduḥkhayoḥ |
ते ऽप्य् अद्धा न विदुर् योगं मृत्युर् न प्रभवेद् यथा ॥ (१९।२)
te 'py addhā na vidur yogaṃ mṛtyur na prabhaved yathā ||
को ऽन्व् अर्थः सुखयत्य् एनं कामो वा मृत्युर् अन्तिके । (२०।१)
ko 'nv arthaḥ sukhayaty enaṃ kāmo vā mṛtyur antike |
श्रुतं च दृष्टवद् दुष्टं स्पर्धासूयात्ययव्ययैः । (२१।१)
śrutaṃ ca dṛṣṭavad duṣṭaṃ spardhāsūyātyayavyayaiḥ |
बह्वन्तरायकामत्वात् कृषिवच् चापि निष्फलम् ॥ (२१।२)
bahvantarāyakāmatvāt kṛṣivac cāpi niṣphalam ||
अन्तरायैर् अविहितो यदि धर्मः स्वनुष्ठितः । (२२।१)
antarāyair avihito yadi dharmaḥ svanuṣṭhitaḥ |
तेनापि निर्जितं स्थानं यथा गच्छति तच् छृणु ॥ (२२।२)
tenāpi nirjitaṃ sthānaṃ yathā gacchati tac chṛṇu ||
इष्ट्वेह देवता यज्ञैः स्वर्लोकं याति याज्ञिकः । (२३।१)
iṣṭveha devatā yajñaiḥ svarlokaṃ yāti yājñikaḥ |
भुञ्जीत देववत् तत्र भोगान् दिव्यान् निजार्जितान् ॥ (२३।२)
bhuñjīta devavat tatra bhogān divyān nijārjitān ||
गन्धर्वैर् विहरन् मध्ये देवीनां हृद्यवेषधृक् ॥ (२४।२)
gandharvair viharan madhye devīnāṃ hṛdyaveṣadhṛk ||
क्रीडन् न वेदात्मपातं सुराक्रीडेषु निर्वृतः ॥ (२५।२)
krīḍan na vedātmapātaṃ surākrīḍeṣu nirvṛtaḥ ||
तावत् स मोदते स्वर्गे यावत् पुण्यं समाप्यते । (२६।१)
tāvat sa modate svarge yāvat puṇyaṃ samāpyate |
क्षीणपुण्यः पतत्य् अर्वाग् अनिच्छन् कालचालितः ॥ (२६।२)
kṣīṇapuṇyaḥ pataty arvāg anicchan kālacālitaḥ ||
यद्य् अधर्मरतः सङ्गाद् असतां वाजितेन्द्रियः । (२७।१)
yady adharmarataḥ saṅgād asatāṃ vājitendriyaḥ |
कामात्मा कृपणो लुब्धः स्त्रैणो भूतविहिंसकः ॥ (२७।२)
kāmātmā kṛpaṇo lubdhaḥ straiṇo bhūtavihiṃsakaḥ ||
नरकान् अवशो जन्तुर् गत्वा यात्य् उल्बणं तमः ॥ (२८।२)
narakān avaśo jantur gatvā yāty ulbaṇaṃ tamaḥ ||
कर्माणि दुःखोदर्काणि कुर्वन् देहेन तैः पुनः । (२९।१)
karmāṇi duḥkhodarkāṇi kurvan dehena taiḥ punaḥ |
देहम् आभजते तत्र किं सुखं मर्त्यधर्मिणः ॥ (२९।२)
deham ābhajate tatra kiṃ sukhaṃ martyadharmiṇaḥ ||
लोकानां लोकपालानां मद् भयं कल्पजीविनाम् । (३०।१)
lokānāṃ lokapālānāṃ mad bhayaṃ kalpajīvinām |
ब्रह्मणो ऽपि भयं मत्तो द्विपरार्धपरायुषः ॥ (३०।२)
brahmaṇo 'pi bhayaṃ matto dviparārdhaparāyuṣaḥ ||
गुणाः सृजन्ति कर्माणि गुणो ऽनुसृजते गुणान् । (३१।१)
guṇāḥ sṛjanti karmāṇi guṇo 'nusṛjate guṇān |
जीवस् तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्य् असौ ॥ (३१।२)
jīvas tu guṇasaṃyukto bhuṅkte karmaphalāny asau ||
यावत् स्याद् गुणवैषम्यं तावन् नानात्वम् आत्मनः । (३२।१)
yāvat syād guṇavaiṣamyaṃ tāvan nānātvam ātmanaḥ |
नानात्वम् आत्मनो यावत् पारतन्त्र्यं तदैव हि ॥ (३२।२)
nānātvam ātmano yāvat pāratantryaṃ tadaiva hi ||
यावद् अस्यास्वतन्त्रत्वं तावद् ईश्वरतो भयम् । (३३।१)
yāvad asyāsvatantratvaṃ tāvad īśvarato bhayam |
य एतत् समुपासीरंस् ते मुह्यन्ति शुचार्पिताः ॥ (३३।२)
ya etat samupāsīraṃs te muhyanti śucārpitāḥ ||
गुणैर् न बध्यते देही बध्यते वा कथं विभो ॥ (३५।३)
guṇair na badhyate dehī badhyate vā kathaṃ vibho ||
कथं वर्तेत विहरेत् कैर् वा ज्ञायेत लक्षणैः । (३६।१)
kathaṃ varteta viharet kair vā jñāyeta lakṣaṇaiḥ |
किं भुञ्जीतोत विसृजेच् छयीतासीत याति वा ॥ (३६।२)
kiṃ bhuñjītota visṛjec chayītāsīta yāti vā ||
एतद् अच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर । (३७।१)
etad acyuta me brūhi praśnaṃ praśnavidāṃ vara |
नित्यबद्धो नित्यमुक्त एक एवेति मे भ्रमः ॥ (३७।२)
nityabaddho nityamukta eka eveti me bhramaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.