भागवतपुराणBhāgavatapurāṇa

BhāgavPur, 11, 3

96 of 114 · 125 verses

Select a line for its word-by-word analysis.

1.1१.१

श्रीराजोवाच । (१।१)

śrīrājovāca |

1.2१.२

परस्य विष्णोर् ईशस्य मायिनाम् अपि मोहिनीम् । (१।२)

parasya viṣṇor īśasya māyinām api mohinīm |

1.3१.३

मायां वेदितुम् इच्छामो भगवन्तो ब्रुवन्तु नः ॥ (१।३)

māyāṃ veditum icchāmo bhagavanto bruvantu naḥ ||

2.1२.१

नानुतृप्ये जुषन् युष्मद्वचो हरिकथामृतम् । (२।१)

nānutṛpye juṣan yuṣmadvaco harikathāmṛtam |

2.2२.२

संसारतापनिस्तप्तो मर्त्यस् तत्तापभेषजम् ॥ (२।२)

saṃsāratāpanistapto martyas tattāpabheṣajam ||

3.1३.१

श्रीअन्तरीक्ष उवाच । (३।१)

śrīantarīkṣa uvāca

3.2३.२

एभिर् भूतानि भूतात्मा महाभूतैर् महाभुज । (३।२)

ebhir bhūtāni bhūtātmā mahābhūtair mahābhuja |

3.3३.३

ससर्जोच्चावचान्य् आद्यः स्वमात्रात्मप्रसिद्धये ॥ (३।३)

sasarjoccāvacāny ādyaḥ svamātrātmaprasiddhaye ||

4.1४.१

एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः । (४।१)

evaṃ sṛṣṭāni bhūtāni praviṣṭaḥ pañcadhātubhiḥ |

4.2४.२

एकधा दशधात्मानं विभजन् जुषते गुणान् ॥ (४।२)

ekadhā daśadhātmānaṃ vibhajan juṣate guṇān ||

5.1५.१

गुणैर् गुणान् स भुञ्जान आत्मप्रद्योतितैः प्रभुः । (५।१)

guṇair guṇān sa bhuñjāna ātmapradyotitaiḥ prabhuḥ |

5.2५.२

मन्यमान इदं सृष्टम् आत्मानम् इह सज्जते ॥ (५।२)

manyamāna idaṃ sṛṣṭam ātmānam iha sajjate ||

6.1६.१

कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् । (६।१)

karmāṇi karmabhiḥ kurvan sanimittāni dehabhṛt |

6.2६.२

तत् तत् कर्मफलं गृह्णन् भ्रमतीह सुखेतरम् ॥ (६।२)

tat tat karmaphalaṃ gṛhṇan bhramatīha sukhetaram ||

7.1७.१

इत्थं कर्मगतीर् गच्छन् बह्वभद्रवहाः पुमान् । (७।१)

itthaṃ karmagatīr gacchan bahvabhadravahāḥ pumān |

7.2७.२

आभूतसम्प्लवात् सर्गप्रलयाव् अश्नुते ऽवशः ॥ (७।२)

ābhūtasamplavāt sargapralayāv aśnute 'vaśaḥ ||

8.1८.१

धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् । (८।१)

dhātūpaplava āsanne vyaktaṃ dravyaguṇātmakam |

8.2८.२

अनादिनिधनः कालो ह्य् अव्यक्तायापकर्षति ॥ (८।२)

anādinidhanaḥ kālo hy avyaktāyāpakarṣati ||

9.1९.१

शतवर्षा ह्य् अनावृष्टिर् भविष्यत्य् उल्बणा भुवि । (९।१)

śatavarṣā hy anāvṛṣṭir bhaviṣyaty ulbaṇā bhuvi |

9.2९.२

तत्कालोपचितोष्णार्को लोकांस् त्रीन् प्रतपिष्यति ॥ (९।२)

tatkālopacitoṣṇārko lokāṃs trīn pratapiṣyati ||

10.1१०.१

पातालतलम् आरभ्य संकर्षणमुखानलः । (१०।१)

pātālatalam ārabhya saṃkarṣaṇamukhānalaḥ |

10.2१०.२

दहन्न् ऊर्ध्वशिखो विष्वग् वर्धते वायुनेरितः ॥ (१०।२)

dahann ūrdhvaśikho viṣvag vardhate vāyuneritaḥ ||

11.1११.१

संवर्तको मेघगणो वर्षति स्म शतं समाः । (११।१)

saṃvartako meghagaṇo varṣati sma śataṃ samāḥ |

11.2११.२

धाराभिर् हस्तिहस्ताभिर् लीयते सलिले विराट् ॥ (११।२)

dhārābhir hastihastābhir līyate salile virāṭ ||

12.1१२.१

ततो विराजम् उत्सृज्य वैराजः पुरुषो नृप । (१२।१)

tato virājam utsṛjya vairājaḥ puruṣo nṛpa |

12.2१२.२

अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ (१२।२)

avyaktaṃ viśate sūkṣmaṃ nirindhana ivānalaḥ ||

13.1१३.१

वायुना हृतगन्धा भूः सलिलत्वाय कल्पते । (१३।१)

vāyunā hṛtagandhā bhūḥ salilatvāya kalpate |

13.2१३.२

सलिलं तद्धृतरसं ज्योतिष्ट्वायोपकल्पते ॥ (१३।२)

salilaṃ taddhṛtarasaṃ jyotiṣṭvāyopakalpate ||

14.1१४.१

हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते । (१४।१)

hṛtarūpaṃ tu tamasā vāyau jyotiḥ pralīyate |

14.2१४.२

हृतस्पर्शो ऽवकाशेन वायुर् नभसि लीयते । (१४।२)

hṛtasparśo 'vakāśena vāyur nabhasi līyate |

14.3१४.३

कालात्मना हृतगुणं नभ आत्मनि लीयते ॥ (१४।३)

kālātmanā hṛtaguṇaṃ nabha ātmani līyate ||

15.1१५.१

इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर् नृप । (१५।१)

indriyāṇi mano buddhiḥ saha vaikārikair nṛpa |

15.2१५.२

प्रविशन्ति ह्य् अहंकारं स्वगुणैर् अहम् आत्मनि ॥ (१५।२)

praviśanti hy ahaṃkāraṃ svaguṇair aham ātmani ||

16.1१६.१

एषा माया भगवतः सर्गस्थित्यन्तकारिणी । (१६।१)

eṣā māyā bhagavataḥ sargasthityantakāriṇī |

16.2१६.२

त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुम् इच्छसि ॥ (१६।२)

trivarṇā varṇitāsmābhiḥ kiṃ bhūyaḥ śrotum icchasi ||

17.1१७.१

श्रीराजोवाच । (१७।१)

śrīrājovāca |

17.2१७.२

यथैताम् ऐश्वरीं मायां दुस्तराम् अकृतात्मभिः । (१७।२)

yathaitām aiśvarīṃ māyāṃ dustarām akṛtātmabhiḥ |

17.3१७.३

तरन्त्य् अञ्जः स्थूलधियो महर्ष इदम् उच्यताम् ॥ (१७।३)

taranty añjaḥ sthūladhiyo maharṣa idam ucyatām ||

18.1१८.१

श्रीप्रबुद्ध उवाच । (१८।१)

śrīprabuddha uvāca

18.2१८.२

कर्माण्य् आरभमाणानां दुःखहत्यै सुखाय च । (१८।२)

karmāṇy ārabhamāṇānāṃ duḥkhahatyai sukhāya ca |

18.3१८.३

पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ (१८।३)

paśyet pākaviparyāsaṃ mithunīcāriṇāṃ nṛṇām ||

19.1१९.१

नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना । (१९।१)

nityārtidena vittena durlabhenātmamṛtyunā |

19.2१९.२

गृहापत्याप्तपशुभिः का प्रीतिः साधितैश् चलैः ॥ (१९।२)

gṛhāpatyāptapaśubhiḥ kā prītiḥ sādhitaiś calaiḥ ||

20.1२०.१

एवं लोकं परम् विद्यान् नश्वरं कर्मनिर्मितम् । (२०।१)

evaṃ lokaṃ param vidyān naśvaraṃ karmanirmitam |

20.2२०.२

सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥ (२०।२)

satulyātiśayadhvaṃsaṃ yathā maṇḍalavartinām ||

21.1२१.१

तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । (२१।१)

tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam |

21.2२१.२

शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥ (२१।२)

śābde pare ca niṣṇātaṃ brahmaṇy upaśamāśrayam ||

22.1२२.१

तत्र भागवतान् धर्मान् शिक्षेद् गुर्वात्मदैवतः । (२२।१)

tatra bhāgavatān dharmān śikṣed gurvātmadaivataḥ |

22.2२२.२

अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्मदो हरिः ॥ (२२।२)

amāyayānuvṛttyā yais tuṣyed ātmātmado hariḥ ||

23.1२३.१

सर्वतो मनसो ऽसङ्गम् आदौ सङ्गं च साधुषु । (२३।१)

sarvato manaso 'saṅgam ādau saṅgaṃ ca sādhuṣu |

23.2२३.२

दयां मैत्रीं प्रश्रयं च भूतेष्व् अद्धा यथोचितम् ॥ (२३।२)

dayāṃ maitrīṃ praśrayaṃ ca bhūteṣv addhā yathocitam ||

24.1२४.१

शौचं तपस् तितिक्षां च मौनं स्वाध्यायम् आर्जवम् । (२४।१)

śaucaṃ tapas titikṣāṃ ca maunaṃ svādhyāyam ārjavam |

24.2२४.२

ब्रह्मचर्यम् अहिंसां च समत्वं द्वंद्वसंज्ञयोः ॥ (२४।२)

brahmacaryam ahiṃsāṃ ca samatvaṃ dvaṃdvasaṃjñayoḥ ||

25.1२५.१

सर्वत्रात्मेश्वरान्वीक्षां कैवल्यम् अनिकेतताम् । (२५।१)

sarvatrātmeśvarānvīkṣāṃ kaivalyam aniketatām |

25.2२५.२

विविक्तचीरवसनं संतोषं येन केनचित् ॥ (२५।२)

viviktacīravasanaṃ saṃtoṣaṃ yena kenacit ||

26.1२६.१

श्रद्धां भागवते शास्त्रे ऽनिन्दाम् अन्यत्र चापि हि । (२६।१)

śraddhāṃ bhāgavate śāstre 'nindām anyatra cāpi hi |

26.2२६.२

मनोवाक्कर्मदण्डं च सत्यं शमदमाव् अपि ॥ (२६।२)

manovākkarmadaṇḍaṃ ca satyaṃ śamadamāv api ||

27.1२७.१

श्रवणं कीर्तनं ध्यानं हरेर् अद्भुतकर्मणः । (२७।१)

śravaṇaṃ kīrtanaṃ dhyānaṃ harer adbhutakarmaṇaḥ |

27.2२७.२

जन्मकर्मगुणानां च तदर्थे ऽखिलचेष्टितम् ॥ (२७।२)

janmakarmaguṇānāṃ ca tadarthe 'khilaceṣṭitam ||

28.1२८.१

इष्टं दत्तं तपो जप्तं वृत्तं यच् चात्मनः प्रियम् । (२८।१)

iṣṭaṃ dattaṃ tapo japtaṃ vṛttaṃ yac cātmanaḥ priyam |

28.2२८.२

दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥ (२८।२)

dārān sutān gṛhān prāṇān yat parasmai nivedanam ||

29.1२९.१

एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् । (२९।१)

evaṃ kṛṣṇātmanātheṣu manuṣyeṣu ca sauhṛdam |

29.2२९.२

परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ (२९।२)

paricaryāṃ cobhayatra mahatsu nṛṣu sādhuṣu ||

30.1३०.१

परस्परानुकथनं पावनं भगवद्यशः । (३०।१)

parasparānukathanaṃ pāvanaṃ bhagavadyaśaḥ |

30.2३०.२

मिथो रतिर् मिथस् तुष्टिर् निवृत्तिर् मिथ आत्मनः ॥ (३०।२)

mitho ratir mithas tuṣṭir nivṛttir mitha ātmanaḥ ||

31.1३१.१

स्मरन्तः स्मारयन्तश् च मिथो ऽघौघहरं हरिम् । (३१।१)

smarantaḥ smārayantaś ca mitho 'ghaughaharaṃ harim |

31.2३१.२

भक्त्या संजातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥ (३१।२)

bhaktyā saṃjātayā bhaktyā bibhraty utpulakāṃ tanum ||

32.1३२.१

क्वचिद् रुदन्त्य् अच्युतचिन्तया क्वचिद्धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः । (३२।१)

kvacid rudanty acyutacintayā kvaciddhasanti nandanti vadanty alaukikāḥ |

32.2३२.२

नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ (३२।२)

nṛtyanti gāyanty anuśīlayanty ajaṃ bhavanti tūṣṇīṃ param etya nirvṛtāḥ ||

33.1३३.१

इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया । (३३।१)

iti bhāgavatān dharmān śikṣan bhaktyā tadutthayā |

33.2३३.२

नारायणपरो मायाम् अञ्जस् तरति दुस्तराम् ॥ (३३।२)

nārāyaṇaparo māyām añjas tarati dustarām ||

34.1३४.१

श्रीराजोवाच । (३४।१)

śrīrājovāca |

34.2३४.२

नारायणाभिधानस्य ब्रह्मणः परमात्मनः । (३४।२)

nārāyaṇābhidhānasya brahmaṇaḥ paramātmanaḥ |

34.3३४.३

निष्ठाम् अर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ (३४।३)

niṣṭhām arhatha no vaktuṃ yūyaṃ hi brahmavittamāḥ ||

35.1३५.१

श्रीपिप्पलायन उवाच । (३५।१)

śrīpippalāyana uvāca

35.2३५.२

स्थित्युद्भवप्रलयहेतुर् अहेतुर् अस्य । (३५।२)

sthityudbhavapralayahetur ahetur asya |

35.3३५.३

यत् स्वप्नजागरसुषुप्तिषु सद् बहिश् च । (३५।३)

yat svapnajāgarasuṣuptiṣu sad bahiś ca |

35.4३५.४

देहेन्द्रियासुहृदयानि चरन्ति येन । (३५।४)

dehendriyāsuhṛdayāni caranti yena |

35.5३५.५

संजीवितानि तद् अवेहि परं नरेन्द्र ॥ (३५।५)

saṃjīvitāni tad avehi paraṃ narendra ||

36.1३६.१

नैतन् मनो विशति वाग् उत चक्षुर् आत्मा । (३६।१)

naitan mano viśati vāg uta cakṣur ātmā |

36.2३६.२

प्राणेन्द्रियाणि च यथानलम् अर्चिषः स्वाः । (३६।२)

prāṇendriyāṇi ca yathānalam arciṣaḥ svāḥ |

36.3३६.३

शब्दो ऽपि बोधकनिषेधतयात्ममूलम् । (३६।३)

śabdo 'pi bodhakaniṣedhatayātmamūlam |

36.4३६.४

अर्थोक्तम् आह यदृते न निषेधसिद्धिः ॥ (३६।४)

arthoktam āha yadṛte na niṣedhasiddhiḥ ||

37.1३७.१

सत्त्वं रजस् तम इति त्रिवृद् एकम् आदौ । (३७।१)

sattvaṃ rajas tama iti trivṛd ekam ādau |

37.2३७.२

सूत्रं महान् अहम् इति प्रवदन्ति जीवम् । (३७।२)

sūtraṃ mahān aham iti pravadanti jīvam |

37.3३७.३

ज्ञानक्रियार्थफलरूपतयोरुशक्ति । (३७।३)

jñānakriyārthaphalarūpatayoruśakti |

37.4३७.४

ब्रह्मैव भाति सद् असच् च तयोः परं यत् ॥ (३७।४)

brahmaiva bhāti sad asac ca tayoḥ paraṃ yat ||

38.1३८.१

नात्मा जजान न मरिष्यति नैधते ऽसौ न क्षीयते सवनविद् व्यभिचारिणां हि । (३८।१)

nātmā jajāna na mariṣyati naidhate 'sau na kṣīyate savanavid vyabhicāriṇāṃ hi |

38.2३८.२

सर्वत्र शश्वद् अनपाय्य् उपलब्धिमात्रं प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ (३८।२)

sarvatra śaśvad anapāyy upalabdhimātraṃ prāṇo yathendriyabalena vikalpitaṃ sat ||

39.1३९.१

अण्डेषु पेशीषु तरुष्व् अविनिश्चितेषु प्राणो हि जीवम् उपधावति तत्र तत्र । (३९।१)

aṇḍeṣu peśīṣu taruṣv aviniściteṣu prāṇo hi jīvam upadhāvati tatra tatra |

39.2३९.२

सन्ने यद् इन्द्रियगणे ऽहमि च प्रसुप्ते कूटस्थ आशयम् ऋते तदनुस्मृतिर् नः ॥ (३९।२)

sanne yad indriyagaṇe 'hami ca prasupte kūṭastha āśayam ṛte tadanusmṛtir naḥ ||

40.1४०.१

यर्ह्य् अब्जनाभचरणैषणयोरुभक्त्या चेतोमलानि विधमेद् गुणकर्मजानि । (४०।१)

yarhy abjanābhacaraṇaiṣaṇayorubhaktyā cetomalāni vidhamed guṇakarmajāni |

40.2४०.२

तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं साक्षाद् यथामलदृशोः सवितृप्रकाशः ॥ (४०।२)

tasmin viśuddha upalabhyata ātmatattvaṃ sākṣād yathāmaladṛśoḥ savitṛprakāśaḥ ||

41.1४१.१

श्रीराजोवाच । (४१।१)

śrīrājovāca |

41.2४१.२

कर्मयोगं वदत नः पुरुषो येन संस्कृतः । (४१।२)

karmayogaṃ vadata naḥ puruṣo yena saṃskṛtaḥ |

41.3४१.३

विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ (४१।३)

vidhūyehāśu karmāṇi naiṣkarmyaṃ vindate param ||

42.1४२.१

एवं प्रश्नम् ऋषीन् पूर्वम् अपृच्छं पितुर् अन्तिके । (४२।१)

evaṃ praśnam ṛṣīn pūrvam apṛcchaṃ pitur antike |

42.2४२.२

नाब्रुवन् ब्रह्मणः पुत्रास् तत्र कारणम् उच्यताम् ॥ (४२।२)

nābruvan brahmaṇaḥ putrās tatra kāraṇam ucyatām ||

43.1४३.१

श्रीआविर्होत्र उवाच । (४३।१)

śrīāvirhotra uvāca

43.2४३.२

कर्माकर्म विकर्मेति वेदवादो न लौकिकः । (४३।२)

karmākarma vikarmeti vedavādo na laukikaḥ |

43.3४३.३

वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ (४३।३)

vedasya ceśvarātmatvāt tatra muhyanti sūrayaḥ ||

44.1४४.१

परोक्षवादो वेदो ऽयं बालानाम् अनुशासनम् । (४४।१)

parokṣavādo vedo 'yaṃ bālānām anuśāsanam |

44.2४४.२

कर्ममोक्षाय कर्माणि विधत्ते ह्य् अगदं यथा ॥ (४४।२)

karmamokṣāya karmāṇi vidhatte hy agadaṃ yathā ||

45.1४५.१

नाचरेद् यस् तु वेदोक्तं स्वयम् अज्ञो ऽजितेन्द्रियः । (४५।१)

nācared yas tu vedoktaṃ svayam ajño 'jitendriyaḥ |

45.2४५.२

विकर्मणा ह्य् अधर्मेण मृत्योर् मृत्युम् उपैति सः ॥ (४५।२)

vikarmaṇā hy adharmeṇa mṛtyor mṛtyum upaiti saḥ ||

46.1४६.१

वेदोक्तम् एव कुर्वाणो निःसङ्गो ऽर्पितम् ईश्वरे । (४६।१)

vedoktam eva kurvāṇo niḥsaṅgo 'rpitam īśvare |

46.2४६.२

नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ (४६।२)

naiṣkarmyaṃ labhate siddhiṃ rocanārthā phalaśrutiḥ ||

47.1४७.१

य आशु हृदयग्रन्थिं निर्जिहीऋषुः परात्मनः । (४७।१)

ya āśu hṛdayagranthiṃ nirjihīṛṣuḥ parātmanaḥ |

47.2४७.२

विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम् ॥ (४७।२)

vidhinopacared devaṃ tantroktena ca keśavam ||

48.1४८.१

लब्ध्वानुग्रह आचार्यात् तेन संदर्शितागमः । (४८।१)

labdhvānugraha ācāryāt tena saṃdarśitāgamaḥ |

48.2४८.२

महापुरुषम् अभ्यर्चेन् मूर्त्याभिमतयात्मनः ॥ (४८।२)

mahāpuruṣam abhyarcen mūrtyābhimatayātmanaḥ ||

49.1४९.१

शुचिः सम्मुखम् आसीनः प्राणसंयमनादिभिः । (४९।१)

śuciḥ sammukham āsīnaḥ prāṇasaṃyamanādibhiḥ |

49.2४९.२

पिण्डं विशोध्य संन्यासकृतरक्षो ऽर्चयेत् ॥ (४९।२)

piṇḍaṃ viśodhya saṃnyāsakṛtarakṣo 'rcayet ||

50.1५०.१

अर्चादौ हृदये चापि यथालब्धोपचारकैः । (५०।१)

arcādau hṛdaye cāpi yathālabdhopacārakaiḥ |

50.2५०.२

द्रव्यक्षित्यात्मलिङ्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ (५०।२)

dravyakṣityātmaliṅgāni niṣpādya prokṣya cāsanam ||

51.1५१.१

पाद्यादीन् उपकल्प्याथ संनिधाप्य समाहितः । (५१।१)

pādyādīn upakalpyātha saṃnidhāpya samāhitaḥ |

51.2५१.२

हृदादिभिः कृतन्यासो मूलमन्त्रेण चार्चयेत् ॥ (५१।२)

hṛdādibhiḥ kṛtanyāso mūlamantreṇa cārcayet ||

52.1५२.१

साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः । (५२।१)

sāṅgopāṅgāṃ sapārṣadāṃ tāṃ tāṃ mūrtiṃ svamantrataḥ |

52.2५२.२

पाद्यार्घ्याचमनीयाद्यैः स्नानवासोविभूषणैः ॥ (५२।२)

pādyārghyācamanīyādyaiḥ snānavāsovibhūṣaṇaiḥ ||

53.1५३.१

गन्धमाल्याक्षतस्रग्भिर् धूपदीपोपहारकैः । (५३।१)

gandhamālyākṣatasragbhir dhūpadīpopahārakaiḥ |

53.2५३.२

साङ्गम् सम्पूज्य विधिवत् स्तवैः स्तुत्वा नमेद्धरिम् ॥ (५३।२)

sāṅgam sampūjya vidhivat stavaiḥ stutvā nameddharim ||

54.1५४.१

आत्मानम् तन्मयम् ध्यायन् मूर्तिं सम्पूजयेद्धरेः । (५४।१)

ātmānam tanmayam dhyāyan mūrtiṃ sampūjayeddhareḥ |

54.2५४.२

शेषम् आधाय शिरसा स्वधाम्न्य् उद्वास्य सत्कृतम् ॥ (५४।२)

śeṣam ādhāya śirasā svadhāmny udvāsya satkṛtam ||

55.1५५.१

एवम् अग्न्यर्कतोयादाव् अतिथौ हृदये च यः । (५५।१)

evam agnyarkatoyādāv atithau hṛdaye ca yaḥ |

55.2५५.२

यजतीश्वरम् आत्मानम् अचिरान् मुच्यते हि सः ॥ (५५।२)

yajatīśvaram ātmānam acirān mucyate hi saḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

BhāgavPur, 11, 3

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit