भागवतपुराणBhāgavatapurāṇa

BhāgavPur, 11, 17

110 of 114 · 119 verses

Select a line for its word-by-word analysis.

1.1१.१

श्र्युद्धव उवाच । (१।१)

śryuddhava uvāca

1.2१.२

यस् त्वयाभिहितः पूर्वं धर्मस् त्वद्भक्तिलक्षणः । (१।२)

yas tvayābhihitaḥ pūrvaṃ dharmas tvadbhaktilakṣaṇaḥ |

1.3१.३

वर्णाश्रमाचारवतां सर्वेषां द्विपदाम् अपि ॥ (१।३)

varṇāśramācāravatāṃ sarveṣāṃ dvipadām api ||

2.1२.१

यथानुष्ठीयमानेन त्वयि भक्तिर् नृणां भवेत् । (२।१)

yathānuṣṭhīyamānena tvayi bhaktir nṛṇāṃ bhavet |

2.2२.२

स्वधर्मेणारविन्दाक्ष तन् ममाख्यातुम् अर्हसि ॥ (२।२)

svadharmeṇāravindākṣa tan mamākhyātum arhasi ||

3.1३.१

पुरा किल महाबाहो धर्मं परमकं प्रभो । (३।१)

purā kila mahābāho dharmaṃ paramakaṃ prabho |

3.2३.२

यत् तेन हंसरूपेण ब्रह्मणे ऽभ्यात्थ माधव ॥ (३।२)

yat tena haṃsarūpeṇa brahmaṇe 'bhyāttha mādhava ||

4.1४.१

स इदानीं सुमहता कालेनामित्रकर्शन । (४।१)

sa idānīṃ sumahatā kālenāmitrakarśana |

4.2४.२

न प्रायो भविता मर्त्यलोके प्राग् अनुशासितः ॥ (४।२)

na prāyo bhavitā martyaloke prāg anuśāsitaḥ ||

5.1५.१

वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि । (५।१)

vaktā kartāvitā nānyo dharmasyācyuta te bhuvi |

5.2५.२

सभायाम् अपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ (५।२)

sabhāyām api vairiñcyāṃ yatra mūrtidharāḥ kalāḥ ||

6.1६.१

कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन । (६।१)

kartrāvitrā pravaktrā ca bhavatā madhusūdana |

6.2६.२

त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति ॥ (६।२)

tyakte mahītale deva vinaṣṭaṃ kaḥ pravakṣyati ||

7.1७.१

तत् त्वं नः सर्वधर्मज्ञ धर्मस् त्वद्भक्तिलक्षणः । (७।१)

tat tvaṃ naḥ sarvadharmajña dharmas tvadbhaktilakṣaṇaḥ |

7.2७.२

यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ (७।२)

yathā yasya vidhīyeta tathā varṇaya me prabho ||

8.1८.१

श्रीशुक उवाच । (८।१)

śrīśuka uvāca

8.2८.२

इत्थं स्वभृत्यमुख्येन पृष्टः स भगवान् हरिः । (८।२)

itthaṃ svabhṛtyamukhyena pṛṣṭaḥ sa bhagavān hariḥ |

8.3८.३

प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् ॥ (८।३)

prītaḥ kṣemāya martyānāṃ dharmān āha sanātanān ||

9.1९.१

श्रीभगवान् उवाच । (९।१)

śrībhagavān uvāca

9.2९.२

धर्म्य एष तव प्रश्नो नैःश्रेयसकरो नृणाम् । (९।२)

dharmya eṣa tava praśno naiḥśreyasakaro nṛṇām |

9.3९.३

वर्णाश्रमाचारवतां तम् उद्धव निबोध मे ॥ (९।३)

varṇāśramācāravatāṃ tam uddhava nibodha me ||

10.1१०.१

आदौ कृतयुगे वर्णो नृणां हंस इति स्मृतः । (१०।१)

ādau kṛtayuge varṇo nṛṇāṃ haṃsa iti smṛtaḥ |

10.2१०.२

कृतकृत्याः प्रजा जात्या तस्मात् कृतयुगं विदुः ॥ (१०।२)

kṛtakṛtyāḥ prajā jātyā tasmāt kṛtayugaṃ viduḥ ||

11.1११.१

वेदः प्रणव एवाग्रे धर्मो ऽहं वृषरूपधृक् । (११।१)

vedaḥ praṇava evāgre dharmo 'haṃ vṛṣarūpadhṛk |

11.2११.२

उपासते तपोनिष्ठा हंसं मां मुक्तकिल्बिषाः ॥ (११।२)

upāsate taponiṣṭhā haṃsaṃ māṃ muktakilbiṣāḥ ||

12.1१२.१

त्रेतामुखे महाभाग प्राणान् मे हृदयात् त्रयी । (१२।१)

tretāmukhe mahābhāga prāṇān me hṛdayāt trayī |

12.2१२.२

विद्या प्रादुरभूत् तस्या अहम् आसं त्रिवृन् मखः ॥ (१२।२)

vidyā prādurabhūt tasyā aham āsaṃ trivṛn makhaḥ ||

13.1१३.१

विप्रक्षत्रियविट्शूद्रा मुखबाहूरुपादजाः । (१३।१)

viprakṣatriyaviṭśūdrā mukhabāhūrupādajāḥ |

13.2१३.२

वैराजात् पुरुषाज् जाता य आत्माचारलक्षणाः ॥ (१३।२)

vairājāt puruṣāj jātā ya ātmācāralakṣaṇāḥ ||

14.1१४.१

गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम । (१४।१)

gṛhāśramo jaghanato brahmacaryaṃ hṛdo mama |

14.2१४.२

वक्षःस्थलाद् वनेवासः संन्यासः शिरसि स्थितः ॥ (१४।२)

vakṣaḥsthalād vanevāsaḥ saṃnyāsaḥ śirasi sthitaḥ ||

15.1१५.१

वर्णानाम् आश्रमाणां च जन्मभूम्यनुसारिणीः । (१५।१)

varṇānām āśramāṇāṃ ca janmabhūmyanusāriṇīḥ |

15.2१५.२

आसन् प्रकृतयो नॄणां नीचैर् नीचोत्तमोत्तमाः ॥ (१५।२)

āsan prakṛtayo nṝṇāṃ nīcair nīcottamottamāḥ ||

16.1१६.१

शमो दमस् तपः शौचं संतोषः क्षान्तिर् आर्जवम् । (१६।१)

śamo damas tapaḥ śaucaṃ saṃtoṣaḥ kṣāntir ārjavam |

16.2१६.२

मद्भक्तिश् च दया सत्यं ब्रह्मप्रकृतयस् त्व् इमाः ॥ (१६।२)

madbhaktiś ca dayā satyaṃ brahmaprakṛtayas tv imāḥ ||

17.1१७.१

तेजो बलं धृतिः शौर्यं तितिक्षौदार्यम् उद्यमः । (१७।१)

tejo balaṃ dhṛtiḥ śauryaṃ titikṣaudāryam udyamaḥ |

17.2१७.२

स्थैर्यं ब्रह्मण्यम् ऐश्वर्यं क्षत्रप्रकृतयस् त्व् इमाः ॥ (१७।२)

sthairyaṃ brahmaṇyam aiśvaryaṃ kṣatraprakṛtayas tv imāḥ ||

18.1१८.१

आस्तिक्यं दाननिष्ठा च अदम्भो ब्रह्मसेवनम् । (१८।१)

āstikyaṃ dānaniṣṭhā ca adambho brahmasevanam |

18.2१८.२

अतुष्टिर् अर्थोपचयैर् वैश्यप्रकृतयस् त्व् इमाः ॥ (१८।२)

atuṣṭir arthopacayair vaiśyaprakṛtayas tv imāḥ ||

19.1१९.१

शुश्रूषणं द्विजगवां देवानां चाप्य् अमायया । (१९।१)

śuśrūṣaṇaṃ dvijagavāṃ devānāṃ cāpy amāyayā |

19.2१९.२

तत्र लब्धेन संतोषः शूद्रप्रकृतयस् त्व् इमाः ॥ (१९।२)

tatra labdhena saṃtoṣaḥ śūdraprakṛtayas tv imāḥ ||

20.1२०.१

अशौचम् अनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः । (२०।१)

aśaucam anṛtaṃ steyaṃ nāstikyaṃ śuṣkavigrahaḥ |

20.2२०.२

कामः क्रोधश् च तर्षश् च स भावो ऽन्त्यावसायिनाम् ॥ (२०।२)

kāmaḥ krodhaś ca tarṣaś ca sa bhāvo 'ntyāvasāyinām ||

21.1२१.१

अहिंसा सत्यम् अस्तेयम् अकामक्रोधलोभता । (२१।१)

ahiṃsā satyam asteyam akāmakrodhalobhatā |

21.2२१.२

भूतप्रियहिते हा च धर्मो ऽयं सार्ववर्णिकः ॥ (२१।२)

bhūtapriyahite hā ca dharmo 'yaṃ sārvavarṇikaḥ ||

22.1२२.१

द्वितीयं प्राप्यानुपूर्व्याज् जन्मोपनयनं द्विजः । (२२।१)

dvitīyaṃ prāpyānupūrvyāj janmopanayanaṃ dvijaḥ |

22.2२२.२

वसन् गुरुकुले दान्तो ब्रह्माधीयीत चाहूतः ॥ (२२।२)

vasan gurukule dānto brahmādhīyīta cāhūtaḥ ||

23.1२३.१

मेखलाजिनदण्डाक्षब्रह्मसूत्रकमण्डलून् । (२३।१)

mekhalājinadaṇḍākṣabrahmasūtrakamaṇḍalūn |

23.2२३.२

जटिलो ऽधौतदद्वासो ऽरक्तपीठः कुशान् दधत् ॥ (२३।२)

jaṭilo 'dhautadadvāso 'raktapīṭhaḥ kuśān dadhat ||

24.1२४.१

स्नानभोजनहोमेषु जपोच्चारे च वाग्यतः । (२४।१)

snānabhojanahomeṣu japoccāre ca vāgyataḥ |

24.2२४.२

न छिन्द्यान् नखरोमाणि कक्षोपस्थगतान्य् अपि ॥ (२४।२)

na chindyān nakharomāṇi kakṣopasthagatāny api ||

25.1२५.१

रेतो नावकिरेज् जातु ब्रह्मव्रतधरः स्वयम् । (२५।१)

reto nāvakirej jātu brahmavratadharaḥ svayam |

25.2२५.२

अवकीर्णे ऽवगाह्याप्सु यतासुस् त्रिपदां जपेत् ॥ (२५।२)

avakīrṇe 'vagāhyāpsu yatāsus tripadāṃ japet ||

26.1२६.१

अग्न्यर्काचार्यगोविप्रगुरुवृद्धसुराञ् शुचिः । (२६।१)

agnyarkācāryagovipraguruvṛddhasurāñ śuciḥ |

26.2२६.२

समाहित उपासीत संध्ये द्वे यतवाग् जपन् ॥ (२६।२)

samāhita upāsīta saṃdhye dve yatavāg japan ||

27.1२७.१

आचार्यं मां विजानीयान् नावमन्येत कर्हिचित् । (२७।१)

ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit |

27.2२७.२

न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥ (२७।२)

na martyabuddhyāsūyeta sarvadevamayo guruḥ ||

28.1२८.१

सायं प्रातर् उपानीय भैक्ष्यं तस्मै निवेदयेत् । (२८।१)

sāyaṃ prātar upānīya bhaikṣyaṃ tasmai nivedayet |

28.2२८.२

यच् चान्यद् अप्य् अनुज्ञातम् उपयुञ्जीत संयतः ॥ (२८।२)

yac cānyad apy anujñātam upayuñjīta saṃyataḥ ||

29.1२९.१

शुश्रूषमाण आचार्यं सदोपासीत नीचवत् । (२९।१)

śuśrūṣamāṇa ācāryaṃ sadopāsīta nīcavat |

29.2२९.२

यानशय्यासनस्थानैर् नातिदूरे कृताञ्जलिः ॥ (२९।२)

yānaśayyāsanasthānair nātidūre kṛtāñjaliḥ ||

30.1३०.१

एवंवृत्तो गुरुकुले वसेद् भोगविवर्जितः । (३०।१)

evaṃvṛtto gurukule vased bhogavivarjitaḥ |

30.2३०.२

विद्या समाप्यते यावद् बिभ्रद् व्रतम् अखण्डितम् ॥ (३०।२)

vidyā samāpyate yāvad bibhrad vratam akhaṇḍitam ||

31.1३१.१

यद्य् असौ छन्दसां लोकम् आरोक्ष्यन् ब्रह्मविष्टपम् । (३१।१)

yady asau chandasāṃ lokam ārokṣyan brahmaviṣṭapam |

31.2३१.२

गुरवे विन्यसेद् देहं स्वाध्यायार्थं बृहद्व्रतः ॥ (३१।२)

gurave vinyased dehaṃ svādhyāyārthaṃ bṛhadvrataḥ ||

32.1३२.१

अग्नौ गुराव् आत्मनि च सर्वभूतेषु मां परम् । (३२।१)

agnau gurāv ātmani ca sarvabhūteṣu māṃ param |

32.2३२.२

अपृथग्धीर् उपासीत ब्रह्मवर्चस्व्य् अकल्मषः ॥ (३२।२)

apṛthagdhīr upāsīta brahmavarcasvy akalmaṣaḥ ||

33.1३३.१

स्त्रीणां निरीक्षणस्पर्शसंलापक्ष्वेलनादिकम् । (३३।१)

strīṇāṃ nirīkṣaṇasparśasaṃlāpakṣvelanādikam |

33.2३३.२

प्राणिनो मिथुनीभूतान् अगृहस्थो ऽग्रतस् त्यजेत् ॥ (३३।२)

prāṇino mithunībhūtān agṛhastho 'gratas tyajet ||

34.1३४.१

शौचम् आचमनं स्नानं संध्योपास्तिर् ममार्चनम् । (३४।१)

śaucam ācamanaṃ snānaṃ saṃdhyopāstir mamārcanam |

34.2३४.२

तीर्थसेवा जपो ऽस्पृश्याभक्ष्यासंभाष्यवर्जनम् ॥ (३४।२)

tīrthasevā japo 'spṛśyābhakṣyāsaṃbhāṣyavarjanam ||

35.1३५.१

सर्वाश्रमप्रयुक्तो ऽयं नियमः कुलनन्दन । (३५।१)

sarvāśramaprayukto 'yaṃ niyamaḥ kulanandana |

35.2३५.२

मद्भावः सर्वभूतेषु मनोवाक्कायसंयमः ॥ (३५।२)

madbhāvaḥ sarvabhūteṣu manovākkāyasaṃyamaḥ ||

36.1३६.१

एवं बृहद्व्रतधरो ब्राह्मणो ऽग्निर् इव ज्वलन् । (३६।१)

evaṃ bṛhadvratadharo brāhmaṇo 'gnir iva jvalan |

36.2३६.२

मद्भक्तस् तीव्रतपसा दग्धकर्माशयो ऽमलः ॥ (३६।२)

madbhaktas tīvratapasā dagdhakarmāśayo 'malaḥ ||

37.1३७.१

अथानन्तरम् आवेक्ष्यन् यथाजिज्ञासितागमः । (३७।१)

athānantaram āvekṣyan yathājijñāsitāgamaḥ |

37.2३७.२

गुरवे दक्षिणां दत्त्वा स्नायाद् गुर्वनुमोदितः ॥ (३७।२)

gurave dakṣiṇāṃ dattvā snāyād gurvanumoditaḥ ||

38.1३८.१

गृहं वनं वोपविशेत् प्रव्रजेद् वा द्विजोत्तमः । (३८।१)

gṛhaṃ vanaṃ vopaviśet pravrajed vā dvijottamaḥ |

38.2३८.२

आश्रमाद् आश्रमं गच्छेन् नान्यथामत्परश् चरेत् ॥ (३८।२)

āśramād āśramaṃ gacchen nānyathāmatparaś caret ||

39.1३९.१

गृहार्थी सदृशीं भार्याम् उद्वहेद् अजुगुप्सिताम् । (३९।१)

gṛhārthī sadṛśīṃ bhāryām udvahed ajugupsitām |

39.2३९.२

यवीयसीं तु वयसा यं सवर्णाम् अनु क्रमात् ॥ (३९।२)

yavīyasīṃ tu vayasā yaṃ savarṇām anu kramāt ||

40.1४०.१

इज्याध्ययनदानानि सर्वेषां च द्विजन्मनाम् । (४०।१)

ijyādhyayanadānāni sarveṣāṃ ca dvijanmanām |

40.2४०.२

प्रतिग्रहो ऽध्यापनं च ब्राह्मणस्यैव याजनम् ॥ (४०।२)

pratigraho 'dhyāpanaṃ ca brāhmaṇasyaiva yājanam ||

41.1४१.१

प्रतिग्रहं मन्यमानस् तपस्तेजोयशोनुदम् । (४१।१)

pratigrahaṃ manyamānas tapastejoyaśonudam |

41.2४१.२

अन्याभ्याम् एव जीवेत शिलैर् वा दोषदृक् तयोः ॥ (४१।२)

anyābhyām eva jīveta śilair vā doṣadṛk tayoḥ ||

42.1४२.१

ब्राह्मणस्य हि देहो ऽयं क्षुद्रकामाय नेष्यते । (४२।१)

brāhmaṇasya hi deho 'yaṃ kṣudrakāmāya neṣyate |

42.2४२.२

कृच्छ्राय तपसे चेह प्रेत्यानन्तसुखाय च ॥ (४२।२)

kṛcchrāya tapase ceha pretyānantasukhāya ca ||

43.1४३.१

शिलोञ्छवृत्त्या परितुष्टचित्तो धर्मं महान्तं विरजं जुषाणः । (४३।१)

śiloñchavṛttyā parituṣṭacitto dharmaṃ mahāntaṃ virajaṃ juṣāṇaḥ |

43.2४३.२

मय्य् अर्पितात्मा गृह एव तिष्ठन् नातिप्रसक्तः समुपैति शान्तिम् ॥ (४३।२)

mayy arpitātmā gṛha eva tiṣṭhan nātiprasaktaḥ samupaiti śāntim ||

44.1४४.१

समुद्धरन्ति ये विप्रं सीदन्तं मत्परायणम् । (४४।१)

samuddharanti ye vipraṃ sīdantaṃ matparāyaṇam |

44.2४४.२

तान् उद्धरिष्ये न चिराद् आपद्भ्यो नौर् इवार्णवात् ॥ (४४।२)

tān uddhariṣye na cirād āpadbhyo naur ivārṇavāt ||

45.1४५.१

सर्वाः समुद्धरेद् राजा पितेव व्यसनात् प्रजाः । (४५।१)

sarvāḥ samuddhared rājā piteva vyasanāt prajāḥ |

45.2४५.२

आत्मानम् आत्मना धीरो यथा गजपतिर् गजान् ॥ (४५।२)

ātmānam ātmanā dhīro yathā gajapatir gajān ||

46.1४६.१

एवंविधो नरपतिर् विमानेनार्कवर्चसा । (४६।१)

evaṃvidho narapatir vimānenārkavarcasā |

46.2४६.२

विधूयेहाशुभं कृत्स्नम् इन्द्रेण सह मोदते ॥ (४६।२)

vidhūyehāśubhaṃ kṛtsnam indreṇa saha modate ||

47.1४७.१

सीदन् विप्रो वणिग्वृत्त्या पण्यैर् एवापदं तरेत् । (४७।१)

sīdan vipro vaṇigvṛttyā paṇyair evāpadaṃ taret |

47.2४७.२

खड्गेन वापदाक्रान्तो न श्ववृत्त्या कथंचन ॥ (४७।२)

khaḍgena vāpadākrānto na śvavṛttyā kathaṃcana ||

48.1४८.१

वैश्यवृत्त्या तु राजन्यो जीवेन् मृगययापदि । (४८।१)

vaiśyavṛttyā tu rājanyo jīven mṛgayayāpadi |

48.2४८.२

चरेद् वा विप्ररूपेण न श्ववृत्त्या कथंचन ॥ (४८।२)

cared vā viprarūpeṇa na śvavṛttyā kathaṃcana ||

49.1४९.१

शूद्रवृत्तिं भजेद् वैश्यः शूद्रः कारुकटक्रियाम् । (४९।१)

śūdravṛttiṃ bhajed vaiśyaḥ śūdraḥ kārukaṭakriyām |

49.2४९.२

कृच्छ्रान् मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ (४९।२)

kṛcchrān mukto na garhyeṇa vṛttiṃ lipseta karmaṇā ||

50.1५०.१

वेदाध्यायस्वधास्वाहाबल्यन्नाद्यैर् यथोदयम् । (५०।१)

vedādhyāyasvadhāsvāhābalyannādyair yathodayam |

50.2५०.२

देवर्षिपितृभूतानि मद्रूपाण्य् अन्वहं यजेत् ॥ (५०।२)

devarṣipitṛbhūtāni madrūpāṇy anvahaṃ yajet ||

51.1५१.१

यदृच्छयोपपन्नेन शुक्लेनोपार्जितेन वा । (५१।१)

yadṛcchayopapannena śuklenopārjitena vā |

51.2५१.२

धनेनापीडयन् भृत्यान् न्यायेनैवाहरेत् क्रतून् ॥ (५१।२)

dhanenāpīḍayan bhṛtyān nyāyenaivāharet kratūn ||

52.1५२.१

कुटुम्बेषु न सज्जेत न प्रमाद्येत् कुटुम्ब्य् अपि । (५२।१)

kuṭumbeṣu na sajjeta na pramādyet kuṭumby api |

52.2५२.२

विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्टवत् ॥ (५२।२)

vipaścin naśvaraṃ paśyed adṛṣṭam api dṛṣṭavat ||

53.1५३.१

पुत्रदाराप्तबन्धूनां संगमः पान्थसंगमः । (५३।१)

putradārāptabandhūnāṃ saṃgamaḥ pānthasaṃgamaḥ |

53.2५३.२

अनुदेहं वियन्त्य् एते स्वप्नो निद्रानुगो यथा ॥ (५३।२)

anudehaṃ viyanty ete svapno nidrānugo yathā ||

54.1५४.१

इत्थं परिमृशन् मुक्तो गृहेष्व् अतिथिवद् वसन् । (५४।१)

itthaṃ parimṛśan mukto gṛheṣv atithivad vasan |

54.2५४.२

न गृहैर् अनुबध्येत निर्ममो निरहंकृतः ॥ (५४।२)

na gṛhair anubadhyeta nirmamo nirahaṃkṛtaḥ ||

55.1५५.१

कर्मभिर् गृहमेधीयैर् इष्ट्वा माम् एव भक्तिमान् । (५५।१)

karmabhir gṛhamedhīyair iṣṭvā mām eva bhaktimān |

55.2५५.२

तिष्ठेद् वनं वोपविशेत् प्रजावान् वा परिव्रजेत् ॥ (५५।२)

tiṣṭhed vanaṃ vopaviśet prajāvān vā parivrajet ||

56.1५६.१

यस् त्व् आसक्तमतिर् गेहे पुत्रवित्तैषणातुरः । (५६।१)

yas tv āsaktamatir gehe putravittaiṣaṇāturaḥ |

56.2५६.२

स्त्रैणः कृपणधीर् मूढो ममाहम् इति बध्यते ॥ (५६।२)

straiṇaḥ kṛpaṇadhīr mūḍho mamāham iti badhyate ||

57.1५७.१

अहो मे पितरौ वृद्धौ भार्या बालात्मजात्मजाः । (५७।१)

aho me pitarau vṛddhau bhāryā bālātmajātmajāḥ |

57.2५७.२

अनाथा माम् ऋते दीनाः कथं जीवन्ति दुःखिताः ॥ (५७।२)

anāthā mām ṛte dīnāḥ kathaṃ jīvanti duḥkhitāḥ ||

58.1५८.१

एवं गृहाशयाक्षिप्तहृदयो मूढधीर् अयम् । (५८।१)

evaṃ gṛhāśayākṣiptahṛdayo mūḍhadhīr ayam |

58.2५८.२

अतृप्तस् तान् अनुध्यायन् मृतो ऽन्धं विशते तमः ॥ (५८।२)

atṛptas tān anudhyāyan mṛto 'ndhaṃ viśate tamaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

BhāgavPur, 11, 17

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit