BhāgavPur, 11, 18
Select a line for its word-by-word analysis.
वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा । (१।२)
vanaṃ vivikṣuḥ putreṣu bhāryāṃ nyasya sahaiva vā |
कन्दमूलफलैर् वन्यैर् मेध्यैर् वृत्तिं प्रकल्पयेत् । (२।१)
kandamūlaphalair vanyair medhyair vṛttiṃ prakalpayet |
न धावेद् अप्सु मज्जेत त्रिकालं स्थण्डिलेशयः ॥ (३।२)
na dhāved apsu majjeta trikālaṃ sthaṇḍileśayaḥ ||
ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्व् आसारषाड् जले । (४।१)
grīṣme tapyeta pañcāgnīn varṣāsv āsāraṣāḍ jale |
आकण्ठमग्नः शिशिर एवं वृत्तस् तपश् चरेत् ॥ (४।२)
ākaṇṭhamagnaḥ śiśira evaṃ vṛttas tapaś caret ||
स्वयं संचिनुयात् सर्वम् आत्मनो वृत्तिकारणम् । (६।१)
svayaṃ saṃcinuyāt sarvam ātmano vṛttikāraṇam |
वन्यैश् चरुपुरोडाशैर् निर्वपेत् कालचोदितान् । (७।१)
vanyaiś carupuroḍāśair nirvapet kālacoditān |
अग्निहोत्रं च दर्शश् च पौर्णमासश् च पूर्ववत् । (८।१)
agnihotraṃ ca darśaś ca paurṇamāsaś ca pūrvavat |
चातुर्मास्यानि च मुनेर् आम्नातानि च नैगमैः ॥ (८।२)
cāturmāsyāni ca muner āmnātāni ca naigamaiḥ ||
यस् त्व् एतत् कृच्छ्रतश् चीर्णं तपो निःश्रेयसं महत् । (१०।१)
yas tv etat kṛcchrataś cīrṇaṃ tapo niḥśreyasaṃ mahat |
कामायाल्पीयसे युञ्ज्याद् बालिशः को ऽपरस् ततः ॥ (१०।२)
kāmāyālpīyase yuñjyād bāliśaḥ ko 'paras tataḥ ||
आत्मन्य् अग्नीन् समारोप्य मच्चित्तो ऽग्निं समाविशेत् ॥ (११।२)
ātmany agnīn samāropya maccitto 'gniṃ samāviśet ||
विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत् ततः ॥ (१२।२)
virāgo jāyate samyaṅ nyastāgniḥ pravrajet tataḥ ||
इष्ट्वा यथोपदेशं मां दत्त्वा सर्वस्वम् ऋत्विजे । (१३।१)
iṣṭvā yathopadeśaṃ māṃ dattvā sarvasvam ṛtvije |
अग्नीन् स्वप्राण आवेश्य निरपेक्षः परिव्रजेत् ॥ (१३।२)
agnīn svaprāṇa āveśya nirapekṣaḥ parivrajet ||
विघ्नान् कुर्वन्त्य् अयं ह्य् अस्मान् आक्रम्य समियात् परम् ॥ (१४।२)
vighnān kurvanty ayaṃ hy asmān ākramya samiyāt param ||
बिभृयाच् चेन् मुनिर् वासः कौपीनाच्छादनं परम् । (१५।१)
bibhṛyāc cen munir vāsaḥ kaupīnācchādanaṃ param |
त्यक्तं न दण्डपात्राभ्याम् अन्यत् किंचिद् अनापदि ॥ (१५।२)
tyaktaṃ na daṇḍapātrābhyām anyat kiṃcid anāpadi ||
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेज् जलम् । (१६।१)
dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ pibej jalam |
सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥ (१६।२)
satyapūtāṃ vaded vācaṃ manaḥpūtaṃ samācaret ||
न ह्य् एते यस्य सन्त्य् अङ्ग वेणुभिर् न भवेद् यतिः ॥ (१७।२)
na hy ete yasya santy aṅga veṇubhir na bhaved yatiḥ ||
भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयंश् चरेत् । (१८।१)
bhikṣāṃ caturṣu varṇeṣu vigarhyān varjayaṃś caret |
सप्तागारान् असंकॢप्तांस् तुष्येल् लब्धेन तावता ॥ (१८।२)
saptāgārān asaṃkḷptāṃs tuṣyel labdhena tāvatā ||
बहिर् जलाशयं गत्वा तत्रोपस्पृश्य वाग्यतः । (१९।१)
bahir jalāśayaṃ gatvā tatropaspṛśya vāgyataḥ |
विभज्य पावितं शेषं भुञ्जीताशेषम् आहृतम् ॥ (१९।२)
vibhajya pāvitaṃ śeṣaṃ bhuñjītāśeṣam āhṛtam ||
एकश् चरेन् महीम् एतां निःसङ्गः संयतेन्द्रियः । (२०।१)
ekaś caren mahīm etāṃ niḥsaṅgaḥ saṃyatendriyaḥ |
आत्मानं चिन्तयेद् एकम् अभेदेन मया मुनिः ॥ (२१।२)
ātmānaṃ cintayed ekam abhedena mayā muniḥ ||
अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया । (२२।१)
anvīkṣetātmano bandhaṃ mokṣaṃ ca jñānaniṣṭhayā |
बन्ध इन्द्रियविक्षेपो मोक्ष एषां च संयमः ॥ (२२।२)
bandha indriyavikṣepo mokṣa eṣāṃ ca saṃyamaḥ ||
तस्मान् नियम्य षड्वर्गं मद्भावेन चरेन् मुनिः । (२३।१)
tasmān niyamya ṣaḍvargaṃ madbhāvena caren muniḥ |
विरक्तः क्षुद्रकामेभ्यो लब्ध्वात्मनि सुखं महत् ॥ (२३।२)
viraktaḥ kṣudrakāmebhyo labdhvātmani sukhaṃ mahat ||
पुरग्रामव्रजान् सार्थान् भिक्षार्थं प्रविशंश् चरेत् । (२४।१)
puragrāmavrajān sārthān bhikṣārthaṃ praviśaṃś caret |
वानप्रस्थाश्रमपदेष्व् अभीक्ष्णं भैक्ष्यम् आचरेत् । (२५।१)
vānaprasthāśramapadeṣv abhīkṣṇaṃ bhaikṣyam ācaret |
संसिध्यत्य् आश्व् असंमोहः शुद्धसत्त्वः शिलान्धसा ॥ (२५।२)
saṃsidhyaty āśv asaṃmohaḥ śuddhasattvaḥ śilāndhasā ||
नैतद्वस्तुतया पश्येद्दृश्यमानं विनश्यति । (२६।१)
naitadvastutayā paśyeddṛśyamānaṃ vinaśyati |
यद् एतद् आत्मनि जगन् मनोवाक्प्राणसंहतम् । (२७।१)
yad etad ātmani jagan manovākprāṇasaṃhatam |
सर्वं मायेति तर्केण स्वस्थस् त्यक्त्वा न तत् स्मरेत् ॥ (२७।२)
sarvaṃ māyeti tarkeṇa svasthas tyaktvā na tat smaret ||
ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वानपेक्षकः । (२८।१)
jñānaniṣṭho virakto vā madbhakto vānapekṣakaḥ |
सलिङ्गान् आश्रमांस् त्यक्त्वा चरेद् अविधिगोचरः ॥ (२८।२)
saliṅgān āśramāṃs tyaktvā cared avidhigocaraḥ ||
बुधो बालकवत् क्रीडेत् कुशलो जडवच् चरेत् । (२९।१)
budho bālakavat krīḍet kuśalo jaḍavac caret |
वदेद् उन्मत्तवद् विद्वान् गोचर्यां नैगमश् चरेत् ॥ (२९।२)
vaded unmattavad vidvān gocaryāṃ naigamaś caret ||
शुष्कवादविवादे न कंचित् पक्षं समाश्रयेत् ॥ (३०।२)
śuṣkavādavivāde na kaṃcit pakṣaṃ samāśrayet ||
नोद्विजेत जनाद् धीरो जनं चोद्वेजयेन् न तु । (३१।१)
nodvijeta janād dhīro janaṃ codvejayen na tu |
देहम् उद्दिश्य पशुवद् वैरं कुर्यान् न केनचित् ॥ (३१।३)
deham uddiśya paśuvad vairaṃ kuryān na kenacit ||
एक एव परो ह्य् आत्मा भूतेष्व् आत्मन्य् अवस्थितः । (३२।१)
eka eva paro hy ātmā bhūteṣv ātmany avasthitaḥ |
यथेन्दुर् उदपात्रेषु भूतान्य् एकात्मकानि च ॥ (३२।२)
yathendur udapātreṣu bhūtāny ekātmakāni ca ||
अलब्ध्वा न विषीदेत काले काले ऽशनं क्वचित् । (३३।१)
alabdhvā na viṣīdeta kāle kāle 'śanaṃ kvacit |
लब्ध्वा न हृष्येद् धृतिमान् उभयं दैवतन्त्रितम् ॥ (३३।२)
labdhvā na hṛṣyed dhṛtimān ubhayaṃ daivatantritam ||
आहारार्थं समीहेत युक्तं तत्प्राणधारणम् । (३४।१)
āhārārthaṃ samīheta yuktaṃ tatprāṇadhāraṇam |
तत्त्वं विमृश्यते तेन तद् विज्ञाय विमुच्यते ॥ (३४।२)
tattvaṃ vimṛśyate tena tad vijñāya vimucyate ||
यदृच्छयोपपन्नान्नम् अद्याच् छ्रेष्ठम् उतापरम् । (३५।१)
yadṛcchayopapannānnam adyāc chreṣṭham utāparam |
तथा वासस् तथा शय्यां प्राप्तं प्राप्तं भजेन् मुनिः ॥ (३५।२)
tathā vāsas tathā śayyāṃ prāptaṃ prāptaṃ bhajen muniḥ ||
अन्यांश् च नियमाञ् ज्ञानी यथाहं लीलयेश्वरः ॥ (३६।२)
anyāṃś ca niyamāñ jñānī yathāhaṃ līlayeśvaraḥ ||
न हि तस्य विकल्पाख्या या च मद्वीक्षया हता । (३७।१)
na hi tasya vikalpākhyā yā ca madvīkṣayā hatā |
आदेहान्तात् क्वचित् ख्यातिस् ततः सम्पद्यते मया ॥ (३७।२)
ādehāntāt kvacit khyātis tataḥ sampadyate mayā ||
अज्ज्ञासितमद्धर्मो मुनिं गुरुम् उपव्रजेत् ॥ (३८।२)
ajjñāsitamaddharmo muniṃ gurum upavrajet ||
तावत् परिचरेद् भक्तः श्रद्धावान् अनसूयकः । (३९।१)
tāvat paricared bhaktaḥ śraddhāvān anasūyakaḥ |
यावद् ब्रह्म विजानीयान् माम् एव गुरुम् आदृतः ॥ (३९।२)
yāvad brahma vijānīyān mām eva gurum ādṛtaḥ ||
यस् त्व् असंयतषड्वर्गः प्रचण्डेन्द्रियसारथिः । (४०।१)
yas tv asaṃyataṣaḍvargaḥ pracaṇḍendriyasārathiḥ |
सुरान् आत्मानम् आत्मस्थं निह्नुते मां च धर्महा । (४१।१)
surān ātmānam ātmasthaṃ nihnute māṃ ca dharmahā |
अविपक्वकषायो ऽस्माद् अमुष्माच् च विहीयते ॥ (४१।२)
avipakvakaṣāyo 'smād amuṣmāc ca vihīyate ||
भिक्षोर् धर्मः शमो ऽहिंसा तप ईक्षा वनौकसः । (४२।१)
bhikṣor dharmaḥ śamo 'hiṃsā tapa īkṣā vanaukasaḥ |
गृहिणो भूतरक्षेज्या द्विजस्याचार्यसेवनम् ॥ (४२।२)
gṛhiṇo bhūtarakṣejyā dvijasyācāryasevanam ||
ब्रह्मचर्यं तपः शौचं संतोषो भूतसौहृदम् । (४३।१)
brahmacaryaṃ tapaḥ śaucaṃ saṃtoṣo bhūtasauhṛdam |
गृहस्थस्याप्य् ऋतौ गन्तुः सर्वेषां मदुपासनम् ॥ (४३।२)
gṛhasthasyāpy ṛtau gantuḥ sarveṣāṃ madupāsanam ||
इति मां यः स्वधर्मेण भजेन् नित्यम् अनन्यभाक् । (४४।१)
iti māṃ yaḥ svadharmeṇa bhajen nityam ananyabhāk |
सर्वभूतेषु मद्भावो मद्भक्तिं विन्दते दृढाम् ॥ (४४।२)
sarvabhūteṣu madbhāvo madbhaktiṃ vindate dṛḍhām ||
सर्वोत्पत्त्यप्ययं ब्रह्म कारणं मोपयाति सः ॥ (४५।२)
sarvotpattyapyayaṃ brahma kāraṇaṃ mopayāti saḥ ||
इति स्वधर्मनिर्णिक्तसत्त्वो निर्ज्ञातमद्गतिः । (४६।१)
iti svadharmanirṇiktasattvo nirjñātamadgatiḥ |
ज्ञानविज्ञानसम्पन्नो नचिरात् समुपैति माम् ॥ (४६।२)
jñānavijñānasampanno nacirāt samupaiti mām ||
एतत् ते ऽभिहितं साधो भवान् पृच्छति यच् च माम् । (४८।१)
etat te 'bhihitaṃ sādho bhavān pṛcchati yac ca mām |
यथा स्वधर्मसंयुक्तो भक्तो मां समियात् परम् ॥ (४८।२)
yathā svadharmasaṃyukto bhakto māṃ samiyāt param ||
Data courtesy of The Digital Corpus of Sanskrit.