भागवतपुराणBhāgavatapurāṇa

BhāgavPur, 11, 16

109 of 114 · 91 verses

Select a line for its word-by-word analysis.

1.1१.१

श्रीउद्धव उवाच । (१।१)

śrīuddhava uvāca

1.2१.२

त्वं ब्रह्म परमं साक्षाद् अनाद्यन्तम् अपावृतम् । (१।२)

tvaṃ brahma paramaṃ sākṣād anādyantam apāvṛtam |

1.3१.३

सर्वेषाम् अपि भावानां त्राणस्थित्यप्ययोद्भवः ॥ (१।३)

sarveṣām api bhāvānāṃ trāṇasthityapyayodbhavaḥ ||

2.1२.१

उच्चावचेषु भूतेषु दुर्ज्ञेयम् अकृतात्मभिः । (२।१)

uccāvaceṣu bhūteṣu durjñeyam akṛtātmabhiḥ |

2.2२.२

उपासते त्वां भगवन् याथातथ्येन ब्राह्मणाः ॥ (२।२)

upāsate tvāṃ bhagavan yāthātathyena brāhmaṇāḥ ||

3.1३.१

येषु येषु च भूतेषु भक्त्या त्वां परमर्षयः । (३।१)

yeṣu yeṣu ca bhūteṣu bhaktyā tvāṃ paramarṣayaḥ |

3.2३.२

उपासीनाः प्रपद्यन्ते संसिद्धिं तद् वदस्व मे ॥ (३।२)

upāsīnāḥ prapadyante saṃsiddhiṃ tad vadasva me ||

4.1४.१

गूढश् चरसि भूतात्मा भूतानां भूतभावन । (४।१)

gūḍhaś carasi bhūtātmā bhūtānāṃ bhūtabhāvana |

4.2४.२

न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ॥ (४।२)

na tvāṃ paśyanti bhūtāni paśyantaṃ mohitāni te ||

5.1५.१

याः काश् च भूमौ दिवि वै रसायां विभूतयो दिक्षु महाविभूते । (५।१)

yāḥ kāś ca bhūmau divi vai rasāyāṃ vibhūtayo dikṣu mahāvibhūte |

5.2५.२

ता मह्यम् आख्याह्य् अनुभावितास् ते नमामि ते तीर्थपदाङ्घ्रिपद्मम् ॥ (५।२)

tā mahyam ākhyāhy anubhāvitās te namāmi te tīrthapadāṅghripadmam ||

6.1६.१

श्रीभगवान् उवाच । (६।१)

śrībhagavān uvāca

6.2६.२

एवम् एतद् अहं पृष्टः प्रश्नं प्रश्नविदां वर । (६।२)

evam etad ahaṃ pṛṣṭaḥ praśnaṃ praśnavidāṃ vara |

6.3६.३

युयुत्सुना विनशने सपत्नैर् अर्जुनेन वै ॥ (६।३)

yuyutsunā vinaśane sapatnair arjunena vai ||

7.1७.१

ज्ञात्वा ज्ञातिवधं गर्ह्यम् अधर्मं राज्यहेतुकम् । (७।१)

jñātvā jñātivadhaṃ garhyam adharmaṃ rājyahetukam |

7.2७.२

ततो निवृत्तो हन्ताहं हतो ऽयम् इति लौकिकः ॥ (७।२)

tato nivṛtto hantāhaṃ hato 'yam iti laukikaḥ ||

8.1८.१

स तदा पुरुषव्याघ्रो युक्त्या मे प्रतिबोधितः । (८।१)

sa tadā puruṣavyāghro yuktyā me pratibodhitaḥ |

8.2८.२

अभ्यभाषत माम् एवं यथा त्वं रणमूर्धनि ॥ (८।२)

abhyabhāṣata mām evaṃ yathā tvaṃ raṇamūrdhani ||

9.1९.१

अहम् आत्मोद्धवामीषां भूतानां सुहृद् ईश्वरः । (९।१)

aham ātmoddhavāmīṣāṃ bhūtānāṃ suhṛd īśvaraḥ |

9.2९.२

अहं सर्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ॥ (९।२)

ahaṃ sarvāṇi bhūtāni teṣāṃ sthityudbhavāpyayaḥ ||

10.1१०.१

अहं गतिर् गतिमतां कालः कलयताम् अहम् । (१०।१)

ahaṃ gatir gatimatāṃ kālaḥ kalayatām aham |

10.2१०.२

गुणाणां चाप्य् अहं साम्यं गुणिन्य् औत्पत्तिको गुणः ॥ (१०।२)

guṇāṇāṃ cāpy ahaṃ sāmyaṃ guṇiny autpattiko guṇaḥ ||

11.1११.१

गुणिनाम् अप्य् अहं सूत्रं महतां च महान् अहम् । (११।१)

guṇinām apy ahaṃ sūtraṃ mahatāṃ ca mahān aham |

11.2११.२

सूक्ष्माणाम् अप्य् अहं जीवो दुर्जयानाम् अहं मनः ॥ (११।२)

sūkṣmāṇām apy ahaṃ jīvo durjayānām ahaṃ manaḥ ||

12.1१२.१

हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस् त्रिवृत् । (१२।१)

hiraṇyagarbho vedānāṃ mantrāṇāṃ praṇavas trivṛt |

12.2१२.२

अक्षराणाम् अकारो ऽस्मि पदानि छन्दसाम् अहम् ॥ (१२।२)

akṣarāṇām akāro 'smi padāni chandasām aham ||

13.1१३.१

इन्द्रो ऽहं सर्वदेवानां वसूनाम् अस्मि हव्यवाट् । (१३।१)

indro 'haṃ sarvadevānāṃ vasūnām asmi havyavāṭ |

13.2१३.२

आदित्यानाम् अहं विष्णू रुद्राणां नीललोहितः ॥ (१३।२)

ādityānām ahaṃ viṣṇū rudrāṇāṃ nīlalohitaḥ ||

14.1१४.१

ब्रह्मर्षीणां भृगुर् अहं राजर्षीणाम् अहं मनुः । (१४।१)

brahmarṣīṇāṃ bhṛgur ahaṃ rājarṣīṇām ahaṃ manuḥ |

14.2१४.२

देवर्षीणां नारदो ऽहं हविर्धान्य् अस्मि धेनुषु ॥ (१४।२)

devarṣīṇāṃ nārado 'haṃ havirdhāny asmi dhenuṣu ||

15.1१५.१

सिद्धेश्वराणां कपिलः सुपर्णो ऽहं पतत्रिणाम् । (१५।१)

siddheśvarāṇāṃ kapilaḥ suparṇo 'haṃ patatriṇām |

15.2१५.२

प्रजापतीनां दक्षो ऽहं पितॄणाम् अहम् अर्यमा ॥ (१५।२)

prajāpatīnāṃ dakṣo 'haṃ pitṝṇām aham aryamā ||

16.1१६.१

मां विद्ध्य् उद्धव दैत्यानां प्रह्लादम् असुरेश्वरम् । (१६।१)

māṃ viddhy uddhava daityānāṃ prahlādam asureśvaram |

16.2१६.२

सोमं नक्षत्रौषधीनां धनेशं यक्षरक्षसाम् ॥ (१६।२)

somaṃ nakṣatrauṣadhīnāṃ dhaneśaṃ yakṣarakṣasām ||

17.1१७.१

ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् । (१७।१)

airāvataṃ gajendrāṇāṃ yādasāṃ varuṇaṃ prabhum |

17.2१७.२

तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् ॥ (१७।२)

tapatāṃ dyumatāṃ sūryaṃ manuṣyāṇāṃ ca bhūpatim ||

18.1१८.१

उच्चैःश्रवास् तुरंगाणां धातूनाम् अस्मि काञ्चनम् । (१८।१)

uccaiḥśravās turaṃgāṇāṃ dhātūnām asmi kāñcanam |

18.2१८.२

यमः संयमतां चाहम् सर्पाणाम् अस्मि वासुकिः ॥ (१८।२)

yamaḥ saṃyamatāṃ cāham sarpāṇām asmi vāsukiḥ ||

19.1१९.१

नागेन्द्राणाम् अनन्तो ऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् । (१९।१)

nāgendrāṇām ananto 'haṃ mṛgendraḥ śṛṅgidaṃṣṭriṇām |

19.2१९.२

आश्रमाणाम् अहं तुर्यो वर्णानां प्रथमो ऽनघ ॥ (१९।२)

āśramāṇām ahaṃ turyo varṇānāṃ prathamo 'nagha ||

20.1२०.१

तीर्थानां स्रोतसां गङ्गा समुद्रः सरसाम् अहम् । (२०।१)

tīrthānāṃ srotasāṃ gaṅgā samudraḥ sarasām aham |

20.2२०.२

आयुधानां धनुर् अहं त्रिपुरघ्नो धनुष्मताम् ॥ (२०।२)

āyudhānāṃ dhanur ahaṃ tripuraghno dhanuṣmatām ||

21.1२१.१

धिष्ण्यानाम् अस्म्य् अहं मेरुर् गहनानां हिमालयः । (२१।१)

dhiṣṇyānām asmy ahaṃ merur gahanānāṃ himālayaḥ |

21.2२१.२

वनस्पतीनाम् अश्वत्थ ओषधीनाम् अहं यवः ॥ (२१।२)

vanaspatīnām aśvattha oṣadhīnām ahaṃ yavaḥ ||

22.1२२.१

पुरोधसां वसिष्ठो ऽहं ब्रह्मिष्ठानां बृहस्पतिः । (२२।१)

purodhasāṃ vasiṣṭho 'haṃ brahmiṣṭhānāṃ bṛhaspatiḥ |

22.2२२.२

स्कन्दो ऽहं सर्वसेनान्याम् अग्रण्यां भगवान् अजः ॥ (२२।२)

skando 'haṃ sarvasenānyām agraṇyāṃ bhagavān ajaḥ ||

23.1२३.१

यज्ञानां ब्रह्मयज्ञो ऽहं व्रतानाम् अविहिंसनम् । (२३।१)

yajñānāṃ brahmayajño 'haṃ vratānām avihiṃsanam |

23.2२३.२

वाय्वग्न्यर्काम्बुवागात्मा शुचीनाम् अप्य् अहं शुचिः ॥ (२३।२)

vāyvagnyarkāmbuvāgātmā śucīnām apy ahaṃ śuciḥ ||

24.1२४.१

योगानाम् आत्मसंरोधो मन्त्रो ऽस्मि विजिगीषताम् । (२४।१)

yogānām ātmasaṃrodho mantro 'smi vijigīṣatām |

24.2२४.२

आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् ॥ (२४।२)

ānvīkṣikī kauśalānāṃ vikalpaḥ khyātivādinām ||

25.1२५.१

स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः । (२५।१)

strīṇāṃ tu śatarūpāhaṃ puṃsāṃ svāyambhuvo manuḥ |

25.2२५.२

नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् ॥ (२५।२)

nārāyaṇo munīnāṃ ca kumāro brahmacāriṇām ||

26.1२६.१

धर्माणाम् अस्मि संन्यासः क्षेमाणाम् अबहिर्मतिः । (२६।१)

dharmāṇām asmi saṃnyāsaḥ kṣemāṇām abahirmatiḥ |

26.2२६.२

गुह्यानां सूनृतं मौनं मिथुनानाम् अजस् त्व् अहम् ॥ (२६।२)

guhyānāṃ sūnṛtaṃ maunaṃ mithunānām ajas tv aham ||

27.1२७.१

संवत्सरो ऽस्म्य् अनिमिषाम् ऋतूनां मधुमाधवौ । (२७।१)

saṃvatsaro 'smy animiṣām ṛtūnāṃ madhumādhavau |

27.2२७.२

मासानां मार्गशीर्षो ऽहं नक्षत्राणां तथाभिजित् ॥ (२७।२)

māsānāṃ mārgaśīrṣo 'haṃ nakṣatrāṇāṃ tathābhijit ||

28.1२८.१

अहं युगानां च कृतं धीराणां देवलो ऽसितः । (२८।१)

ahaṃ yugānāṃ ca kṛtaṃ dhīrāṇāṃ devalo 'sitaḥ |

28.2२८.२

द्वैपायनो ऽस्मि व्यासानां कवीनां काव्य आत्मवान् ॥ (२८।२)

dvaipāyano 'smi vyāsānāṃ kavīnāṃ kāvya ātmavān ||

29.1२९.१

वासुदेवो भगवतां त्वं तु भागवतेष्व् अहम् । (२९।१)

vāsudevo bhagavatāṃ tvaṃ tu bhāgavateṣv aham |

29.2२९.२

किम्पुरुषानां हनुमान् विद्याध्राणां सुदर्शनः ॥ (२९।२)

kimpuruṣānāṃ hanumān vidyādhrāṇāṃ sudarśanaḥ ||

30.1३०.१

रत्नानां पद्मरागो ऽस्मि पद्मकोशः सुपेशसाम् । (३०।१)

ratnānāṃ padmarāgo 'smi padmakośaḥ supeśasām |

30.2३०.२

कुशो ऽस्मि दर्भजातीनां गव्यम् आज्यं हविःष्व् अहम् ॥ (३०।२)

kuśo 'smi darbhajātīnāṃ gavyam ājyaṃ haviḥṣv aham ||

31.1३१.१

व्यवसायिनाम् अहं लक्ष्मीः कितवानां छलग्रहः । (३१।१)

vyavasāyinām ahaṃ lakṣmīḥ kitavānāṃ chalagrahaḥ |

31.2३१.२

तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्ववताम् अहम् ॥ (३१।२)

titikṣāsmi titikṣūṇāṃ sattvaṃ sattvavatām aham ||

32.1३२.१

ओजः सहो बलवतां कर्माहं विद्धि सात्वताम् । (३२।१)

ojaḥ saho balavatāṃ karmāhaṃ viddhi sātvatām |

32.2३२.२

सात्वतां नवमूर्तीनाम् आदिमूर्तिर् अहं परा ॥ (३२।२)

sātvatāṃ navamūrtīnām ādimūrtir ahaṃ parā ||

33.1३३.१

विश्वावसुः पूर्वचित्तिर् गन्धर्वाप्सरसाम् अहम् । (३३।१)

viśvāvasuḥ pūrvacittir gandharvāpsarasām aham |

33.2३३.२

भूधराणाम् अहं स्थैर्यं गन्धमात्रम् अहं भुवः ॥ (३३।२)

bhūdharāṇām ahaṃ sthairyaṃ gandhamātram ahaṃ bhuvaḥ ||

34.1३४.१

अपां रसश् च परमस् तेजिष्ठानां विभावसुः । (३४।१)

apāṃ rasaś ca paramas tejiṣṭhānāṃ vibhāvasuḥ |

34.2३४.२

प्रभा सूर्येन्दुताराणां शब्दो ऽहं नभसः परः ॥ (३४।२)

prabhā sūryendutārāṇāṃ śabdo 'haṃ nabhasaḥ paraḥ ||

35.1३५.१

ब्रह्मण्यानां बलिर् अहं वीराणाम् अहम् अर्जुनः । (३५।१)

brahmaṇyānāṃ balir ahaṃ vīrāṇām aham arjunaḥ |

35.2३५.२

भूतानां स्थितिर् उत्पत्तिर् अहं वै प्रतिसंक्रमः ॥ (३५।२)

bhūtānāṃ sthitir utpattir ahaṃ vai pratisaṃkramaḥ ||

36.1३६.१

गत्युक्त्युत्सर्गोपादानम् आनन्दस्पर्शलक्षणम् । (३६।१)

gatyuktyutsargopādānam ānandasparśalakṣaṇam |

36.2३६.२

आस्वादश्रुत्यवघ्राणम् अहं सर्वेन्द्रियेन्द्रियम् ॥ (३६।२)

āsvādaśrutyavaghrāṇam ahaṃ sarvendriyendriyam ||

37.1३७.१

पृथिवी वायुर् आकाश आपो ज्योतिर् अहं महान् । (३७।१)

pṛthivī vāyur ākāśa āpo jyotir ahaṃ mahān |

37.2३७.२

विकारः पुरुषो ऽव्यक्तं रजः सत्त्वं तमः परम् । (३७।२)

vikāraḥ puruṣo 'vyaktaṃ rajaḥ sattvaṃ tamaḥ param |

37.3३७.३

अहम् एतत् प्रसंख्यानं ज्ञानं तत्त्वविनिश्चयः ॥ (३७।३)

aham etat prasaṃkhyānaṃ jñānaṃ tattvaviniścayaḥ ||

38.1३८.१

मयेश्वरेण जीवेन गुणेन गुणिना विना । (३८।१)

mayeśvareṇa jīvena guṇena guṇinā vinā |

38.2३८.२

सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ॥ (३८।२)

sarvātmanāpi sarveṇa na bhāvo vidyate kvacit ||

39.1३९.१

संख्यानं परमाणूनां कालेन क्रियते मया । (३९।१)

saṃkhyānaṃ paramāṇūnāṃ kālena kriyate mayā |

39.2३९.२

न तथा मे विभूतीनां सृजतो ऽण्डानि कोटिशः ॥ (३९।२)

na tathā me vibhūtīnāṃ sṛjato 'ṇḍāni koṭiśaḥ ||

40.1४०.१

तेजः श्रीः कीर्तिर् ऐश्वर्यं ह्रीस् त्यागः सौभगं भगः । (४०।१)

tejaḥ śrīḥ kīrtir aiśvaryaṃ hrīs tyāgaḥ saubhagaṃ bhagaḥ |

40.2४०.२

वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मे ऽंशकः ॥ (४०।२)

vīryaṃ titikṣā vijñānaṃ yatra yatra sa me 'ṃśakaḥ ||

41.1४१.१

एतास् ते कीर्तिताः सर्वाः संक्षेपेण विभूतयः । (४१।१)

etās te kīrtitāḥ sarvāḥ saṃkṣepeṇa vibhūtayaḥ |

41.2४१.२

मनोविकारा एवैते यथा वाचाभिधीयते ॥ (४१।२)

manovikārā evaite yathā vācābhidhīyate ||

42.1४२.१

वाचं यच्छ मनो यच्छ प्राणान् यच्छेन्द्रियाणि च । (४२।१)

vācaṃ yaccha mano yaccha prāṇān yacchendriyāṇi ca |

42.2४२.२

आत्मानम् आत्मना यच्छ न भूयः कल्पसे ऽध्वने ॥ (४२।२)

ātmānam ātmanā yaccha na bhūyaḥ kalpase 'dhvane ||

43.1४३.१

यो वै वाङ्मनसी सम्यग् असंयच्छन् धिया यतिः । (४३।१)

yo vai vāṅmanasī samyag asaṃyacchan dhiyā yatiḥ |

43.2४३.२

तस्य व्रतं तपो दानं स्रवत्य् आमघटाम्बुवत् ॥ (४३।२)

tasya vrataṃ tapo dānaṃ sravaty āmaghaṭāmbuvat ||

44.1४४.१

तस्माद् वचो मनः प्राणान् नियच्छेन् मत्परायणः । (४४।१)

tasmād vaco manaḥ prāṇān niyacchen matparāyaṇaḥ |

44.2४४.२

मद्भक्तियुक्तया बुद्ध्या ततः परिसमाप्यते ॥ (४४।२)

madbhaktiyuktayā buddhyā tataḥ parisamāpyate ||

Data courtesy of The Digital Corpus of Sanskrit.

BhāgavPur, 11, 16

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit