Ṛk 7.68.7
Saṃhitā
उ॒त त्यं भु॒ज्युम॑श्विना॒ सखा॑यो॒ मध्ये॑ जहुर्दु॒रेवा॑सः समु॒द्रे ।
निरीं॑ पर्ष॒दरा॑वा॒ यो यु॒वाकुः॑ ॥
उत त्यम् भुज्युम् अश्विना सखायो मध्ये जहुर् दुरेवासः समुद्रे |
निर् ईम् पर्षद् अरावा यो युवाकुः ||
utá tyám bhujyúmaśvinā sákhāyo mádhye jahurdurévāsaḥ samudré ǀ
nírīm parṣadárāvā yó yuvā́kuḥ ǁ
uta tyam bhujyum aśvinā sakhāyo madhye jahur durevāsaḥ samudre |
nir īm parṣad arāvā yo yuvākuḥ ||
Padapāṭha
उ॒त । त्यम् । भु॒ज्युम् । अ॒श्वि॒ना॒ । सखा॑यः । मध्ये॑ । ज॒हुः॒ । दुः॒ऽएवा॑सः । स॒मु॒द्रे ।
निः । ई॒म् । प॒र्ष॒त् । अरा॑वा । यः । यु॒वाकुः॑ ॥
उत । त्यम् । भुज्युम् । अश्विना । सखायः । मध्ये । जहुः । दुःऽएवासः । समुद्रे ।
निः । ईम् । पर्षत् । अरावा । यः । युवाकुः ॥
utá ǀ tyám ǀ bhujyúm ǀ aśvinā ǀ sákhāyaḥ ǀ mádhye ǀ jahuḥ ǀ duḥ-évāsaḥ ǀ samudré ǀ
níḥ ǀ īm ǀ parṣat ǀ árāvā ǀ yáḥ ǀ yuvā́kuḥ ǁ
uta ǀ tyam ǀ bhujyum ǀ aśvinā ǀ sakhāyaḥ ǀ madhye ǀ jahuḥ ǀ duḥ-evāsaḥ ǀ samudre ǀ
niḥ ǀ īm ǀ parṣat ǀ arāvā ǀ yaḥ ǀ yuvākuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.068.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.15.02
- Maṇḍala · Anuvāka · Ṛk
- 07.04.127
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Virāj, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.