Ṛk 7.75.1
Saṃhitā
व्यु१॒॑षा आ॑वो दिवि॒जा ऋ॒तेना॑विष्कृण्वा॒ना म॑हि॒मान॒मागा॑त् ।
अप॒ द्रुह॒स्तम॑ आव॒रजु॑ष्ट॒मंगि॑रस्तमा प॒थ्या॑ अजीगः ॥
व्य् उषा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानम् आगात् |
अप द्रुहस् तम आवर् अजुष्टम् अङ्गिरस्तमा पथ्या अजीगः ||
vyúṣā́ āvo divijā́ ṛténāviṣkṛṇvānā́ mahimā́namā́gāt ǀ
ápa drúhastáma āvarájuṣṭamáṅgirastamā pathyā́ ajīgaḥ ǁ
vy uṣā āvo divijā ṛtenāviṣkṛṇvānā mahimānam āgāt |
apa druhas tama āvar ajuṣṭam aṅgirastamā pathyā ajīgaḥ ||
Padapāṭha
वि । उ॒षाः । आ॒वः॒ । दि॒वि॒ऽजाः । ऋ॒तेन॑ । आ॒विः॒ऽकृ॒ण्वा॒ना । म॒हि॒मान॑म् । आ । अ॒गा॒त् ।
अप॑ । द्रुहः॑ । तमः॑ । आ॒वः॒ । अजु॑ष्टम् । अङ्गि॑रःऽतमा । प॒थ्याः॑ । अ॒जी॒ग॒रिति॑ ॥
वि । उषाः । आवः । दिविऽजाः । ऋतेन । आविःऽकृण्वाना । महिमानम् । आ । अगात् ।
अप । द्रुहः । तमः । आवः । अजुष्टम् । अङ्गिरःऽतमा । पथ्याः । अजीगरिति ॥
ví ǀ uṣā́ḥ ǀ āvaḥ ǀ divi-jā́ḥ ǀ ṛténa ǀ āviḥ-kṛṇvānā́ ǀ mahimā́nam ǀ ā́ ǀ agāt ǀ
ápa ǀ drúhaḥ ǀ támaḥ ǀ āvaḥ ǀ ájuṣṭam ǀ áṅgiraḥ-tamā ǀ pathyā́ḥ ǀ ajīgaríti ǁ
vi ǀ uṣāḥ ǀ āvaḥ ǀ divi-jāḥ ǀ ṛtena ǀ āviḥ-kṛṇvānā ǀ mahimānam ǀ ā ǀ agāt ǀ
apa ǀ druhaḥ ǀ tamaḥ ǀ āvaḥ ǀ ajuṣṭam ǀ aṅgiraḥ-tamā ǀ pathyāḥ ǀ ajīgariti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.075.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.5.22.01
- Maṇḍala · Anuvāka · Ṛk
- 07.05.023
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.