Ṛk 8.11.10
Saṃhitā
प्र॒त्नो हि क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ ।
स्वां चा॑ग्ने त॒न्वं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥
प्रत्नो हि कम् ईड्यो अध्वरेषु सनाच् च होता नव्यश् च सत्सि |
स्वां चाग्ने तन्वम् पिप्रयस्वास्मभ्यं च सौभगम् आ यजस्व ||
pratnó hí kamī́ḍyo adhvaréṣu sanā́cca hótā návyaśca sátsi ǀ
svā́m cāgne tanvám pipráyasvāsmábhyam ca sáubhagamā́ yajasva ǁ
pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi |
svāṃ cāgne tanvam piprayasvāsmabhyaṃ ca saubhagam ā yajasva ||
Padapāṭha
प्र॒त्नः । हि । क॒म् । ईड्यः॑ । अ॒ध्व॒रेषु॑ । स॒नात् । च॒ । होता॑ । नव्यः॑ । च॒ । सत्सि॑ ।
स्वाम् । च॒ । अ॒ग्ने॒ । त॒न्व॑म् । पि॒प्रय॑स्व । अ॒स्मभ्य॑म् । च॒ । सौभ॑गम् । आ । य॒ज॒स्व॒ ॥
प्रत्नः । हि । कम् । ईड्यः । अध्वरेषु । सनात् । च । होता । नव्यः । च । सत्सि ।
स्वाम् । च । अग्ने । तन्वम् । पिप्रयस्व । अस्मभ्यम् । च । सौभगम् । आ । यजस्व ॥
pratnáḥ ǀ hí ǀ kam ǀ ī́ḍyaḥ ǀ adhvaréṣu ǀ sanā́t ǀ ca ǀ hótā ǀ návyaḥ ǀ ca ǀ sátsi ǀ
svā́m ǀ ca ǀ agne ǀ tanvám ǀ pipráyasva ǀ asmábhyam ǀ ca ǀ sáubhagam ǀ ā́ ǀ yajasva ǁ
pratnaḥ ǀ hi ǀ kam ǀ īḍyaḥ ǀ adhvareṣu ǀ sanāt ǀ ca ǀ hotā ǀ navyaḥ ǀ ca ǀ satsi ǀ
svām ǀ ca ǀ agne ǀ tanvam ǀ piprayasva ǀ asmabhyam ǀ ca ǀ saubhagam ǀ ā ǀ yajasva ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.011.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.8.36.05
- Maṇḍala · Anuvāka · Ṛk
- 08.02.144
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vatsa Kāṇva
- Chandas छन्दस्
- Gāyatrī, Pratiṣṭhā, Vardhamānā, Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.