Ṛk 8.39.2
Saṃhitā
न्य॑ग्ने॒ नव्य॑सा॒ वच॑स्त॒नूषु॒ शंस॑मेषां ।
न्यरा॑ती॒ ररा॑व्णां॒ विश्वा॑ अ॒र्यो अरा॑तीरि॒तो यु॑च्छंत्वा॒मुरो॒ नभं॑तामन्य॒के स॑मे ॥
न्य् अग्ने नव्यसा वचस् तनूषु शंसम् एषाम् |
न्य् अराती रराव्णां विश्वा अर्यो अरातीर् इतो युच्छन्त्व् आमुरो नभन्ताम् अन्यके समे ||
nyágne návyasā vácastanū́ṣu śáṃsameṣām ǀ
nyárātī rárāvṇām víśvā aryó árātīritó yucchantvāmúro nábhantāmanyaké same ǁ
ny agne navyasā vacas tanūṣu śaṃsam eṣām |
ny arātī rarāvṇāṃ viśvā aryo arātīr ito yucchantv āmuro nabhantām anyake same ||
Padapāṭha
नि । अ॒ग्ने॒ । नव्य॑सा । वचः॑ । त॒नूषु॑ । शंस॑म् । ए॒षा॒म् ।
नि । अरा॑तीः । ररा॑व्णाम् । विश्वाः॑ । अ॒र्यः । अरा॑तीः । इ॒तः । यु॒च्छ॒न्तु॒ । आ॒ऽमुरः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
नि । अग्ने । नव्यसा । वचः । तनूषु । शंसम् । एषाम् ।
नि । अरातीः । रराव्णाम् । विश्वाः । अर्यः । अरातीः । इतः । युच्छन्तु । आऽमुरः । नभन्ताम् । अन्यके । समे ॥
ní ǀ agne ǀ návyasā ǀ vácaḥ ǀ tanū́ṣu ǀ śáṃsam ǀ eṣām ǀ
ní ǀ árātīḥ ǀ rárāvṇām ǀ víśvāḥ ǀ aryáḥ ǀ árātīḥ ǀ itáḥ ǀ yucchantu ǀ ā-múraḥ ǀ nábhantām ǀ anyaké ǀ same ǁ
ni ǀ agne ǀ navyasā ǀ vacaḥ ǀ tanūṣu ǀ śaṃsam ǀ eṣām ǀ
ni ǀ arātīḥ ǀ rarāvṇām ǀ viśvāḥ ǀ aryaḥ ǀ arātīḥ ǀ itaḥ ǀ yucchantu ǀ ā-muraḥ ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.039.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.22.02
- Maṇḍala · Anuvāka · Ṛk
- 08.05.135
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.