Ṛk 8.39.7
Saṃhitā
अ॒ग्निर्दे॒वेषु॒ संव॑सुः॒ स वि॒क्षु य॒ज्ञिया॒स्वा ।
स मु॒दा काव्या॑ पु॒रु विश्वं॒ भूमे॑व पुष्यति दे॒वो दे॒वेषु॑ य॒ज्ञियो॒ नभं॑तामन्य॒के स॑मे ॥
अग्निर् देवेषु संवसुः स विक्षु यज्ञियास्व् आ |
स मुदा काव्या पुरु विश्वम् भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्ताम् अन्यके समे ||
agnírdevéṣu sáṃvasuḥ sá vikṣú yajñíyāsvā́ ǀ
sá mudā́ kā́vyā purú víśvam bhū́meva puṣyati devó devéṣu yajñíyo nábhantāmanyaké same ǁ
agnir deveṣu saṃvasuḥ sa vikṣu yajñiyāsv ā |
sa mudā kāvyā puru viśvam bhūmeva puṣyati devo deveṣu yajñiyo nabhantām anyake same ||
Padapāṭha
अ॒ग्निः । दे॒वेषु॑ । सम्ऽव॑सुः । सः । वि॒क्षु । य॒ज्ञिया॑सु । आ ।
सः । मु॒दा । काव्या॑ । पु॒रु । विश्व॑म् । भूम॑ऽइव । पु॒ष्य॒ति॒ । दे॒वः । दे॒वेषु॑ । य॒ज्ञियः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
अग्निः । देवेषु । सम्ऽवसुः । सः । विक्षु । यज्ञियासु । आ ।
सः । मुदा । काव्या । पुरु । विश्वम् । भूमऽइव । पुष्यति । देवः । देवेषु । यज्ञियः । नभन्ताम् । अन्यके । समे ॥
agníḥ ǀ devéṣu ǀ sám-vasuḥ ǀ sáḥ ǀ vikṣú ǀ yajñíyāsu ǀ ā́ ǀ
sáḥ ǀ mudā́ ǀ kā́vyā ǀ purú ǀ víśvam ǀ bhū́ma-iva ǀ puṣyati ǀ deváḥ ǀ devéṣu ǀ yajñíyaḥ ǀ nábhantām ǀ anyaké ǀ same ǁ
agniḥ ǀ deveṣu ǀ sam-vasuḥ ǀ saḥ ǀ vikṣu ǀ yajñiyāsu ǀ ā ǀ
saḥ ǀ mudā ǀ kāvyā ǀ puru ǀ viśvam ǀ bhūma-iva ǀ puṣyati ǀ devaḥ ǀ deveṣu ǀ yajñiyaḥ ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.039.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.23.02
- Maṇḍala · Anuvāka · Ṛk
- 08.05.140
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.