Ṛk 8.39.8
Saṃhitā
यो अ॒ग्निः स॒प्तमा॑नुषः श्रि॒तो विश्वे॑षु॒ सिंधु॑षु ।
तमाग॑न्म त्रिप॒स्त्यं मं॑धा॒तुर्द॑स्यु॒हंत॑मम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं नभं॑तामन्य॒के स॑मे ॥
यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु |
तम् आगन्म त्रिपस्त्यम् मन्धातुर् दस्युहन्तमम् अग्निं यज्ञेषु पूर्व्यं नभन्ताम् अन्यके समे ||
yó agníḥ saptámānuṣaḥ śritó víśveṣu síndhuṣu ǀ
támā́ganma tripastyám mandhātúrdasyuhántamamagním yajñéṣu pūrvyám nábhantāmanyaké same ǁ
yo agniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu |
tam āganma tripastyam mandhātur dasyuhantamam agniṃ yajñeṣu pūrvyaṃ nabhantām anyake same ||
Padapāṭha
यः । अ॒ग्निः । स॒प्तऽमा॑नुषः । श्रि॒तः । विश्वे॑षु । सिन्धु॑षु ।
तम् । आ । अ॒ग॒न्म॒ । त्रि॒ऽप॒स्त्यम् । म॒न्धा॒तुः । द॒स्यु॒हन्ऽत॑मम् । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
यः । अग्निः । सप्तऽमानुषः । श्रितः । विश्वेषु । सिन्धुषु ।
तम् । आ । अगन्म । त्रिऽपस्त्यम् । मन्धातुः । दस्युहन्ऽतमम् । अग्निम् । यज्ञेषु । पूर्व्यम् । नभन्ताम् । अन्यके । समे ॥
yáḥ ǀ agníḥ ǀ saptá-mānuṣaḥ ǀ śritáḥ ǀ víśveṣu ǀ síndhuṣu ǀ
tám ǀ ā́ ǀ aganma ǀ tri-pastyám ǀ mandhātúḥ ǀ dasyuhán-tamam ǀ agním ǀ yajñéṣu ǀ pūrvyám ǀ nábhantām ǀ anyaké ǀ same ǁ
yaḥ ǀ agniḥ ǀ sapta-mānuṣaḥ ǀ śritaḥ ǀ viśveṣu ǀ sindhuṣu ǀ
tam ǀ ā ǀ aganma ǀ tri-pastyam ǀ mandhātuḥ ǀ dasyuhan-tamam ǀ agnim ǀ yajñeṣu ǀ pūrvyam ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.039.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.23.03
- Maṇḍala · Anuvāka · Ṛk
- 08.05.141
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.