Ṛk 8.39.1
Saṃhitā
अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळा य॒जध्यै॑ ।
अ॒ग्निर्दे॒वाँ अ॑नक्तु न उ॒भे हि वि॒दथे॑ क॒विरं॒तश्चर॑ति दू॒त्यं१॒॑ नभं॑तामन्य॒के स॑मे ॥
अग्निम् अस्तोष्य् ऋग्मियम् अग्निम् ईऌआ यजध्यै |
अग्निर् देवां अनक्तु न उभे हि विदथे कविर् अन्तश् चरति दूत्यं नभन्ताम् अन्यके समे ||
agnímastoṣyṛgmíyamagnímīḷā́ yajádhyai ǀ
agnírdevā́m̐ anaktu na ubhé hí vidáthe kavírantáścárati dūtyám nábhantāmanyaké same ǁ
agnim astoṣy ṛgmiyam agnim īḷā yajadhyai |
agnir devāṃ anaktu na ubhe hi vidathe kavir antaś carati dūtyaṃ nabhantām anyake same ||
Padapāṭha
अ॒ग्निम् । अ॒स्तो॒षि॒ । ऋ॒ग्मिय॑म् । अ॒ग्निम् । ई॒ळा । य॒जध्यै॑ ।
अ॒ग्निः । दे॒वान् । अ॒न॒क्तु॒ । नः॒ । उ॒भे इति॑ । हि । वि॒दथे॒ इति॑ । क॒विः । अ॒न्तरिति॑ । चर॑ति । दू॒त्य॑म् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
अग्निम् । अस्तोषि । ऋग्मियम् । अग्निम् । ईळा । यजध्यै ।
अग्निः । देवान् । अनक्तु । नः । उभे इति । हि । विदथे इति । कविः । अन्तरिति । चरति । दूत्यम् । नभन्ताम् । अन्यके । समे ॥
agním ǀ astoṣi ǀ ṛgmíyam ǀ agním ǀ īḷā́ ǀ yajádhyai ǀ
agníḥ ǀ devā́n ǀ anaktu ǀ naḥ ǀ ubhé íti ǀ hí ǀ vidáthe íti ǀ kavíḥ ǀ antáríti ǀ cárati ǀ dūtyám ǀ nábhantām ǀ anyaké ǀ same ǁ
agnim ǀ astoṣi ǀ ṛgmiyam ǀ agnim ǀ īḷā ǀ yajadhyai ǀ
agniḥ ǀ devān ǀ anaktu ǀ naḥ ǀ ubhe iti ǀ hi ǀ vidathe iti ǀ kaviḥ ǀ antariti ǀ carati ǀ dūtyam ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.039.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.22.01
- Maṇḍala · Anuvāka · Ṛk
- 08.05.134
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.