Ṛgveda · Maṇḍala 8 · Sūkta 39

Ṛk 8.39.9

Agni · Nābhāka Kāṇva

The whole sūkta Link

Saṃhitā

अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः ।
स त्रीँरे॑काद॒शाँ इ॒ह यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तः परि॑ष्कृतो॒ नभं॑तामन्य॒के स॑मे ॥

अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः |
स त्रींर् एकादशां इह यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतो नभन्ताम् अन्यके समे ||

agnístrī́ṇi tridhā́tūnyā́ kṣeti vidáthā kavíḥ ǀ
sá trī́m̐rekādaśā́m̐ ihá yákṣacca pipráyacca no vípro dūtáḥ páriṣkṛto nábhantāmanyaké same ǁ

agnis trīṇi tridhātūny ā kṣeti vidathā kaviḥ |
sa trīṃr ekādaśāṃ iha yakṣac ca piprayac ca no vipro dūtaḥ pariṣkṛto nabhantām anyake same ||

Padapāṭha

अ॒ग्निः । त्रीणि॑ । त्रि॒ऽधातू॑नि । आ । क्षे॒ति॒ । वि॒दथा॑ । क॒विः ।
सः । त्रीन् । ए॒का॒द॒शान् । इ॒ह । यक्ष॑त् । च॒ । पि॒प्रय॑त् । च॒ । नः॒ । विप्रः॑ । दू॒तः । परि॑ऽकृतः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

अग्निः । त्रीणि । त्रिऽधातूनि । आ । क्षेति । विदथा । कविः ।
सः । त्रीन् । एकादशान् । इह । यक्षत् । च । पिप्रयत् । च । नः । विप्रः । दूतः । परिऽकृतः । नभन्ताम् । अन्यके । समे ॥

agníḥ ǀ trī́ṇi ǀ tri-dhā́tūni ǀ ā́ ǀ kṣeti ǀ vidáthā ǀ kavíḥ ǀ
sáḥ ǀ trī́n ǀ ekādaśā́n ǀ ihá ǀ yákṣat ǀ ca ǀ pipráyat ǀ ca ǀ naḥ ǀ vípraḥ ǀ dūtáḥ ǀ pári-kṛtaḥ ǀ nábhantām ǀ anyaké ǀ same ǁ

agniḥ ǀ trīṇi ǀ tri-dhātūni ǀ ā ǀ kṣeti ǀ vidathā ǀ kaviḥ ǀ
saḥ ǀ trīn ǀ ekādaśān ǀ iha ǀ yakṣat ǀ ca ǀ piprayat ǀ ca ǀ naḥ ǀ vipraḥ ǀ dūtaḥ ǀ pari-kṛtaḥ ǀ nabhantām ǀ anyake ǀ same ǁ

References

Maṇḍala · Sūkta · Ṛk
08.039.09
Aṣṭaka · Adhyāya · Varga · Ṛk
6.3.23.04
Maṇḍala · Anuvāka · Ṛk
08.05.142
Devatā देवता
Agni
Ṛṣi ऋषि
Nābhāka Kāṇva
Chandas छन्दस्
Mahāpaṅkti
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.39.9

Interpretations

Sri Aurobindo

Fire is the seer who takes up his dwelling in his three abodes of knowledge of three kinds; may he sacrifice to the Three and Thirty and satisfy us, perfected, the illumined thinker and messenger,—let all that are alien be rent asunder. (347)