Ṛk 8.39.5
Saṃhitā
स चि॑केत॒ सही॑यसा॒ग्निश्चि॒त्रेण॒ कर्म॑णा ।
स होता॒ शश्व॑तीनां॒ दक्षि॑णाभिर॒भीवृ॑त इ॒नोति॑ च प्रती॒व्यं१॒॑ नभं॑तामन्य॒के स॑मे ॥
स चिकेत सहीयसाग्निश् चित्रेण कर्मणा |
स होता शश्वतीनां दक्षिणाभिर् अभीवृत इनोति च प्रतीव्यं नभन्ताम् अन्यके समे ||
sá ciketa sáhīyasāgníścitréṇa kármaṇā ǀ
sá hótā śáśvatīnām dákṣiṇābhirabhī́vṛta inóti ca pratīvyám nábhantāmanyaké same ǁ
sa ciketa sahīyasāgniś citreṇa karmaṇā |
sa hotā śaśvatīnāṃ dakṣiṇābhir abhīvṛta inoti ca pratīvyaṃ nabhantām anyake same ||
Padapāṭha
सः । चि॒के॒त॒ । सही॑यसा । अ॒ग्निः । चि॒त्रेण॑ । कर्म॑णा ।
सः । होता॑ । शश्व॑तीनाम् । दक्षि॑णाभिः । अ॒भिऽवृ॑तः । इ॒नोति॑ । च॒ । प्र॒ती॒व्य॑म् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
सः । चिकेत । सहीयसा । अग्निः । चित्रेण । कर्मणा ।
सः । होता । शश्वतीनाम् । दक्षिणाभिः । अभिऽवृतः । इनोति । च । प्रतीव्यम् । नभन्ताम् । अन्यके । समे ॥
sáḥ ǀ ciketa ǀ sáhīyasā ǀ agníḥ ǀ citréṇa ǀ kármaṇā ǀ
sáḥ ǀ hótā ǀ śáśvatīnām ǀ dákṣiṇābhiḥ ǀ abhí-vṛtaḥ ǀ inóti ǀ ca ǀ pratīvyám ǀ nábhantām ǀ anyaké ǀ same ǁ
saḥ ǀ ciketa ǀ sahīyasā ǀ agniḥ ǀ citreṇa ǀ karmaṇā ǀ
saḥ ǀ hotā ǀ śaśvatīnām ǀ dakṣiṇābhiḥ ǀ abhi-vṛtaḥ ǀ inoti ǀ ca ǀ pratīvyam ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.039.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.22.05
- Maṇḍala · Anuvāka · Ṛk
- 08.05.138
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.