Ṛk 8.39.4
Saṃhitā
तत्त॑द॒ग्निर्वयो॑ दधे॒ यथा॑यथा कृप॒ण्यति॑ ।
ऊ॒र्जाहु॑ति॒र्वसू॑नां॒ शं च॒ योश्च॒ मयो॑ दधे॒ विश्व॑स्यै दे॒वहू॑त्यै॒ नभं॑तामन्य॒के स॑मे ॥
तत्-तद् अग्निर् वयो दधे यथा-यथा कृपण्यति |
ऊर्जाहुतिर् वसूनां शं च योश् च मयो दधे विश्वस्यै देवहूत्यै नभन्ताम् अन्यके समे ||
táttadagnírváyo dadhe yáthāyathā kṛpaṇyáti ǀ
ūrjā́hutirvásūnām śám ca yóśca máyo dadhe víśvasyai deváhūtyai nábhantāmanyaké same ǁ
tat-tad agnir vayo dadhe yathā-yathā kṛpaṇyati |
ūrjāhutir vasūnāṃ śaṃ ca yoś ca mayo dadhe viśvasyai devahūtyai nabhantām anyake same ||
Padapāṭha
तत्ऽत॑त् । अ॒ग्निः । वयः॑ । द॒धे॒ । यथा॑ऽयथा । कृ॒प॒ण्यति॑ ।
ऊ॒र्जाऽआ॑हुतिः । वसू॑नाम् । शम् । च॒ । योः । च॒ । मयः॑ । द॒धे॒ । विश्व॑स्यै । दे॒वऽहू॑त्यै । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
तत्ऽतत् । अग्निः । वयः । दधे । यथाऽयथा । कृपण्यति ।
ऊर्जाऽआहुतिः । वसूनाम् । शम् । च । योः । च । मयः । दधे । विश्वस्यै । देवऽहूत्यै । नभन्ताम् । अन्यके । समे ॥
tát-tat ǀ agníḥ ǀ váyaḥ ǀ dadhe ǀ yáthā-yathā ǀ kṛpaṇyáti ǀ
ūrjā́-āhutiḥ ǀ vásūnām ǀ śám ǀ ca ǀ yóḥ ǀ ca ǀ máyaḥ ǀ dadhe ǀ víśvasyai ǀ devá-hūtyai ǀ nábhantām ǀ anyaké ǀ same ǁ
tat-tat ǀ agniḥ ǀ vayaḥ ǀ dadhe ǀ yathā-yathā ǀ kṛpaṇyati ǀ
ūrjā-āhutiḥ ǀ vasūnām ǀ śam ǀ ca ǀ yoḥ ǀ ca ǀ mayaḥ ǀ dadhe ǀ viśvasyai ǀ deva-hūtyai ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.039.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.22.04
- Maṇḍala · Anuvāka · Ṛk
- 08.05.137
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.