Ṛk 8.41.2
Saṃhitā
तमू॒ षु स॑म॒ना गि॒रा पि॑तॄ॒णां च॒ मन्म॑भिः ।
ना॒भा॒कस्य॒ प्रश॑स्तिभि॒र्यः सिंधू॑ना॒मुपो॑द॒ये स॒प्तस्व॑सा॒ स म॑ध्य॒मो नभं॑तामन्य॒के स॑मे ॥
तम् ऊ षु समना गिरा पितॄणां च मन्मभिः |
नाभाकस्य प्रशस्तिभिर् यः सिन्धूनाम् उपोदये सप्तस्वसा स मध्यमो नभन्ताम् अन्यके समे ||
támū ṣú samanā́ girā́ pitṝṇā́m ca mánmabhiḥ ǀ
nābhākásya práśastibhiryáḥ síndhūnāmúpodayé saptásvasā sá madhyamó nábhantāmanyaké same ǁ
tam ū ṣu samanā girā pitṝṇāṃ ca manmabhiḥ |
nābhākasya praśastibhir yaḥ sindhūnām upodaye saptasvasā sa madhyamo nabhantām anyake same ||
Padapāṭha
तम् । ऊं॒ इति॑ । सु । स॒म॒ना । गि॒रा । पि॒तॄ॒णाम् । च॒ । मन्म॑ऽभिः ।
ना॒भा॒कस्य॑ । प्रश॑स्तिऽभिः । यः । सिन्धू॑नाम् । उप॑ । उ॒त्ऽअ॒ये । स॒प्तऽस्व॑सा । सः । म॒ध्य॒मः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
तम् । ऊं इति । सु । समना । गिरा । पितॄणाम् । च । मन्मऽभिः ।
नाभाकस्य । प्रशस्तिऽभिः । यः । सिन्धूनाम् । उप । उत्ऽअये । सप्तऽस्वसा । सः । मध्यमः । नभन्ताम् । अन्यके । समे ॥
tám ǀ ūṃ íti ǀ sú ǀ samanā́ ǀ girā́ ǀ pitṝṇā́m ǀ ca ǀ mánma-bhiḥ ǀ
nābhākásya ǀ práśasti-bhiḥ ǀ yáḥ ǀ síndhūnām ǀ úpa ǀ ut-ayé ǀ saptá-svasā ǀ sáḥ ǀ madhyamáḥ ǀ nábhantām ǀ anyaké ǀ same ǁ
tam ǀ ūṃ iti ǀ su ǀ samanā ǀ girā ǀ pitṝṇām ǀ ca ǀ manma-bhiḥ ǀ
nābhākasya ǀ praśasti-bhiḥ ǀ yaḥ ǀ sindhūnām ǀ upa ǀ ut-aye ǀ sapta-svasā ǀ saḥ ǀ madhyamaḥ ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.041.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.26.02
- Maṇḍala · Anuvāka · Ṛk
- 08.05.157
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.