Ṛk 8.41.6
Saṃhitā
यस्मि॒न्विश्वा॑नि॒ काव्या॑ च॒क्रे नाभि॑रिव श्रि॒ता ।
त्रि॒तं जू॒ती स॑पर्यत व्र॒जे गावो॒ न सं॒युजे॑ यु॒जे अश्वाँ॑ अयुक्षत॒ नभं॑तामन्य॒के स॑मे ॥
यस्मिन् विश्वानि काव्या चक्रे नाभिर् इव श्रिता |
त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वां अयुक्षत नभन्ताम् अन्यके समे ||
yásminvíśvāni kā́vyā cakré nā́bhiriva śritā́ ǀ
tritám jūtī́ saparyata vrajé gā́vo ná saṃyúje yujé áśvām̐ ayukṣata nábhantāmanyaké same ǁ
yasmin viśvāni kāvyā cakre nābhir iva śritā |
tritaṃ jūtī saparyata vraje gāvo na saṃyuje yuje aśvāṃ ayukṣata nabhantām anyake same ||
Padapāṭha
यस्मि॑न् । विश्वा॑नि । काव्या॑ । च॒क्रे । नाभिः॑ऽइव । श्रि॒ता ।
त्रि॒तम् । जू॒ती । स॒प॒र्य॒त॒ । व्र॒जे । गावः॑ । न । स॒म्ऽयुजे॑ । यु॒जे । अश्वा॑न् । अ॒यु॒क्ष॒त॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
यस्मिन् । विश्वानि । काव्या । चक्रे । नाभिःऽइव । श्रिता ।
त्रितम् । जूती । सपर्यत । व्रजे । गावः । न । सम्ऽयुजे । युजे । अश्वान् । अयुक्षत । नभन्ताम् । अन्यके । समे ॥
yásmin ǀ víśvāni ǀ kā́vyā ǀ cakré ǀ nā́bhiḥ-iva ǀ śritā́ ǀ
tritám ǀ jūtī́ ǀ saparyata ǀ vrajé ǀ gā́vaḥ ǀ ná ǀ sam-yúje ǀ yujé ǀ áśvān ǀ ayukṣata ǀ nábhantām ǀ anyaké ǀ same ǁ
yasmin ǀ viśvāni ǀ kāvyā ǀ cakre ǀ nābhiḥ-iva ǀ śritā ǀ
tritam ǀ jūtī ǀ saparyata ǀ vraje ǀ gāvaḥ ǀ na ǀ sam-yuje ǀ yuje ǀ aśvān ǀ ayukṣata ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.041.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.27.01
- Maṇḍala · Anuvāka · Ṛk
- 08.05.161
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.