Ṛk 8.41.3
Saṃhitā
स क्षपः॒ परि॑ षस्वजे॒ न्यु१॒॑स्रो मा॒यया॑ दधे॒ स विश्वं॒ परि॑ दर्श॒तः ।
तस्य॒ वेनी॒रनु॑ व्र॒तमु॒षस्ति॒स्रो अ॑वर्धय॒न्नभं॑तामन्य॒के स॑मे ॥
स क्षपः परि षस्वजे न्य् उस्रो मायया दधे स विश्वम् परि दर्शतः |
तस्य वेनीर् अनु व्रतम् उषस् तिस्रो अवर्धयन् नभन्ताम् अन्यके समे ||
sá kṣápaḥ pári ṣasvaje nyúsró māyáyā dadhe sá víśvam pári darśatáḥ ǀ
tásya vénīránu vratámuṣástisró avardhayannábhantāmanyaké same ǁ
sa kṣapaḥ pari ṣasvaje ny usro māyayā dadhe sa viśvam pari darśataḥ |
tasya venīr anu vratam uṣas tisro avardhayan nabhantām anyake same ||
Padapāṭha
सः । क्षपः॑ । परि॑ । स॒स्व॒जे॒ । नि । उ॒स्रः । मा॒यया॑ । द॒धे॒ । सः । विश्व॑म् । परि॑ । द॒र्श॒तः ।
तस्य॑ । वेनीः॑ । अनु॑ । व्र॒तम् । उ॒षः । ति॒स्रः । अ॒व॒र्ध॒य॒न् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
सः । क्षपः । परि । सस्वजे । नि । उस्रः । मायया । दधे । सः । विश्वम् । परि । दर्शतः ।
तस्य । वेनीः । अनु । व्रतम् । उषः । तिस्रः । अवर्धयन् । नभन्ताम् । अन्यके । समे ॥
sáḥ ǀ kṣápaḥ ǀ pári ǀ sasvaje ǀ ní ǀ usráḥ ǀ māyáyā ǀ dadhe ǀ sáḥ ǀ víśvam ǀ pári ǀ darśatáḥ ǀ
tásya ǀ vénīḥ ǀ ánu ǀ vratám ǀ uṣáḥ ǀ tisráḥ ǀ avardhayan ǀ nábhantām ǀ anyaké ǀ same ǁ
saḥ ǀ kṣapaḥ ǀ pari ǀ sasvaje ǀ ni ǀ usraḥ ǀ māyayā ǀ dadhe ǀ saḥ ǀ viśvam ǀ pari ǀ darśataḥ ǀ
tasya ǀ venīḥ ǀ anu ǀ vratam ǀ uṣaḥ ǀ tisraḥ ǀ avardhayan ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.041.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.26.03
- Maṇḍala · Anuvāka · Ṛk
- 08.05.158
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.