Ṛgveda · Maṇḍala 8 · Sūkta 41

Ṛk 8.41.10

Varuṇa · Nābhāka Kāṇva

The whole sūkta Link

Saṃhitā

यः श्वे॒ताँ अधि॑निर्णिजश्च॒क्रे कृ॒ष्णाँ अनु॑ व्र॒ता ।
स धाम॑ पू॒र्व्यं म॑मे॒ यः स्कं॒भेन॒ वि रोद॑सी अ॒जो न द्यामधा॑रय॒न्नभं॑तामन्य॒के स॑मे ॥

यः श्वेतां अधिनिर्णिजश् चक्रे कृष्णां अनु व्रता |
स धाम पूर्व्यम् ममे य स्कम्भेन वि रोदसी अजो न द्याम् अधारयन् नभन्ताम् अन्यके समे ||

yáḥ śvetā́m̐ ádhinirṇijaścakré kṛṣṇā́m̐ ánu vratā́ ǀ
sá dhā́ma pūrvyám mame yáḥ skambhéna ví ródasī ajó ná dyā́mádhārayannábhantāmanyaké same ǁ

yaḥ śvetāṃ adhinirṇijaś cakre kṛṣṇāṃ anu vratā |
sa dhāma pūrvyam mame ya skambhena vi rodasī ajo na dyām adhārayan nabhantām anyake same ||

Padapāṭha

यः । श्वे॒तान् । अधि॑ऽनिर्निजः । च॒क्रे । कृ॒ष्णान् । अनु॑ । व्र॒ता ।
सः । धाम॑ । पू॒र्व्यम् । म॒मे॒ । यः । स्क॒म्भेन॑ । वि । रोद॑सी॒ इति॑ । अ॒जः । न । द्याम् । अधा॑रयत् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

यः । श्वेतान् । अधिऽनिर्निजः । चक्रे । कृष्णान् । अनु । व्रता ।
सः । धाम । पूर्व्यम् । ममे । यः । स्कम्भेन । वि । रोदसी इति । अजः । न । द्याम् । अधारयत् । नभन्ताम् । अन्यके । समे ॥

yáḥ ǀ śvetā́n ǀ ádhi-nirnijaḥ ǀ cakré ǀ kṛṣṇā́n ǀ ánu ǀ vratā́ ǀ
sáḥ ǀ dhā́ma ǀ pūrvyám ǀ mame ǀ yáḥ ǀ skambhéna ǀ ví ǀ ródasī íti ǀ ajáḥ ǀ ná ǀ dyā́m ǀ ádhārayat ǀ nábhantām ǀ anyaké ǀ same ǁ

yaḥ ǀ śvetān ǀ adhi-nirnijaḥ ǀ cakre ǀ kṛṣṇān ǀ anu ǀ vratā ǀ
saḥ ǀ dhāma ǀ pūrvyam ǀ mame ǀ yaḥ ǀ skambhena ǀ vi ǀ rodasī iti ǀ ajaḥ ǀ na ǀ dyām ǀ adhārayat ǀ nabhantām ǀ anyake ǀ same ǁ

References

Maṇḍala · Sūkta · Ṛk
08.041.10
Aṣṭaka · Adhyāya · Varga · Ṛk
6.3.27.05
Maṇḍala · Anuvāka · Ṛk
08.05.165
Devatā देवता
Varuṇa
Ṛṣi ऋषि
Nābhāka Kāṇva
Chandas छन्दस्
Mahāpaṅkti
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.41.10

Interpretations

Sāyaṇa

अस्तभ्रादिति षळृचं द्वादशं सूक्तं अर्यनानाऋषिः काण्वोनाभाकोवाऋषिः उत्तरेत्वर्चनानाः आद्यस्तृचस्त्रैष्टुभोवरुणदेवत्यः द्वितीयस्तृचआनुष्टु- भोश्विदेवताकः । तथाचानुक्रान्तम्अस्तभ्रात्षळर्चनानावा त्रैष्टुभमन्त्यंवा तृचमाश्विनमानुष्टुभमपश्यदिति । सूक्तविनियोगोलैंगिकः । वारुणेपशौ हविषोयाज्या अस्तभ्रादिति । सूत्रितञ्च-अस्तभ्राद्यामसुरोविश्ववेदाइत्येकादशिनइति । अग्नीषोमप्रणयनेप्येषोत्तरा परिधानीया । तथासूत्रितं-अस्त- भ्राद्यामसुरोविश्ववेदाइति परिदध्यादुत्तरयावेति । एवावन्दस्वेत्येषा वारुणेपशौ हविषोनुवाक्या । सूत्रितञ्च-एवावन्दस्ववरुणंबृहन्तं तत्त्वायामिब्र- ह्मणावन्दमानइति द्वे । सोमप्रवहणेइमांधियमित्येषा परिधानीया । सूत्रितञ्च-इमांधियंशिक्षमाणस्यदेवेति विहितेपरिदध्यादिति ।