Ṛk 8.41.5
Saṃhitā
यो ध॒र्ता भुव॑नानां॒ य उ॒स्राणा॑मपी॒च्या॒३॒॑ वेद॒ नामा॑नि॒ गुह्या॑ ।
स क॒विः काव्या॑ पु॒रु रू॒पं द्यौरि॑व पुष्यति॒ नभं॑तामन्य॒के स॑मे ॥
यो धर्ता भुवनानां य उस्राणाम् अपीच्या वेद नामानि गुह्या |
स कविः काव्या पुरु रूपं द्यौर् इव पुष्यति नभन्ताम् अन्यके समे ||
yó dhartā́ bhúvanānām yá usrā́ṇāmapīcyā́ véda nā́māni gúhyā ǀ
sá kavíḥ kā́vyā purú rūpám dyáuriva puṣyati nábhantāmanyaké same ǁ
yo dhartā bhuvanānāṃ ya usrāṇām apīcyā veda nāmāni guhyā |
sa kaviḥ kāvyā puru rūpaṃ dyaur iva puṣyati nabhantām anyake same ||
Padapāṭha
यः । ध॒र्ता । भुव॑नानाम् । यः । उ॒स्राणा॑म् । अ॒पी॒च्या॑ । वेद॑ । नामा॑नि । गुह्या॑ ।
सः । क॒विः । काव्या॑ । पु॒रु । रू॒पम् । द्यौःऽइ॑व । पु॒ष्य॒ति॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
यः । धर्ता । भुवनानाम् । यः । उस्राणाम् । अपीच्या । वेद । नामानि । गुह्या ।
सः । कविः । काव्या । पुरु । रूपम् । द्यौःऽइव । पुष्यति । नभन्ताम् । अन्यके । समे ॥
yáḥ ǀ dhartā́ ǀ bhúvanānām ǀ yáḥ ǀ usrā́ṇām ǀ apīcyā́ ǀ véda ǀ nā́māni ǀ gúhyā ǀ
sáḥ ǀ kavíḥ ǀ kā́vyā ǀ purú ǀ rūpám ǀ dyáuḥ-iva ǀ puṣyati ǀ nábhantām ǀ anyaké ǀ same ǁ
yaḥ ǀ dhartā ǀ bhuvanānām ǀ yaḥ ǀ usrāṇām ǀ apīcyā ǀ veda ǀ nāmāni ǀ guhyā ǀ
saḥ ǀ kaviḥ ǀ kāvyā ǀ puru ǀ rūpam ǀ dyauḥ-iva ǀ puṣyati ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.041.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.26.05
- Maṇḍala · Anuvāka · Ṛk
- 08.05.160
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.