Ṛk 8.41.7
Saṃhitā
य आ॒स्वत्क॑ आ॒शये॒ विश्वा॑ जा॒तान्ये॑षां ।
परि॒ धामा॑नि॒ मर्मृ॑श॒द्वरु॑णस्य पु॒रो गये॒ विश्वे॑ दे॒वा अनु॑ व्र॒तं नभं॑तामन्य॒के स॑मे ॥
य आस्व् अत्क आशये विश्वा जातान्य् एषाम् |
परि धामानि मर्मृशद् वरुणस्य पुरो गये विश्वे देवा अनु व्रतं नभन्ताम् अन्यके समे ||
yá āsvátka āśáye víśvā jātā́nyeṣām ǀ
pári dhā́māni mármṛśadváruṇasya puró gáye víśve devā́ ánu vratám nábhantāmanyaké same ǁ
ya āsv atka āśaye viśvā jātāny eṣām |
pari dhāmāni marmṛśad varuṇasya puro gaye viśve devā anu vrataṃ nabhantām anyake same ||
Padapāṭha
यः । आ॒सु॒ । अत्कः॑ । आ॒ऽशये॑ । विश्वा॑ । जा॒तानि॑ । ए॒षा॒म् ।
परि॑ । धामा॑नि । मर्मृ॑शत् । वरु॑णस्य । पु॒रः । गये॑ । विश्वे॑ । दे॒वाः । अनु॑ । व्र॒तम् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
यः । आसु । अत्कः । आऽशये । विश्वा । जातानि । एषाम् ।
परि । धामानि । मर्मृशत् । वरुणस्य । पुरः । गये । विश्वे । देवाः । अनु । व्रतम् । नभन्ताम् । अन्यके । समे ॥
yáḥ ǀ āsu ǀ átkaḥ ǀ ā-śáye ǀ víśvā ǀ jātā́ni ǀ eṣām ǀ
pári ǀ dhā́māni ǀ mármṛśat ǀ váruṇasya ǀ puráḥ ǀ gáye ǀ víśve ǀ devā́ḥ ǀ ánu ǀ vratám ǀ nábhantām ǀ anyaké ǀ same ǁ
yaḥ ǀ āsu ǀ atkaḥ ǀ ā-śaye ǀ viśvā ǀ jātāni ǀ eṣām ǀ
pari ǀ dhāmāni ǀ marmṛśat ǀ varuṇasya ǀ puraḥ ǀ gaye ǀ viśve ǀ devāḥ ǀ anu ǀ vratam ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.041.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.27.02
- Maṇḍala · Anuvāka · Ṛk
- 08.05.162
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.