Ṛk 8.41.4
Saṃhitā
यः क॒कुभो॑ निधार॒यः पृ॑थि॒व्यामधि॑ दर्श॒तः ।
स माता॑ पू॒र्व्यं प॒दं तद्वरु॑णस्य॒ सप्त्यं॒ स हि गो॒पा इ॒वेर्यो॒ नभं॑तामन्य॒के स॑मे ॥
यः ककुभो निधारयः पृथिव्याम् अधि दर्शतः |
स माता पूर्व्यम् पदं तद् वरुणस्य सप्त्यं स हि गोपा इवेर्यो नभन्ताम् अन्यके समे ||
yáḥ kakúbho nidhārayáḥ pṛthivyā́mádhi darśatáḥ ǀ
sá mā́tā pūrvyám padám tádváruṇasya sáptyam sá hí gopā́ ivéryo nábhantāmanyaké same ǁ
yaḥ kakubho nidhārayaḥ pṛthivyām adhi darśataḥ |
sa mātā pūrvyam padaṃ tad varuṇasya saptyaṃ sa hi gopā iveryo nabhantām anyake same ||
Padapāṭha
यः । क॒कुभः॑ । नि॒ऽधा॒र॒यः । पृ॒थि॒व्याम् । अधि॑ । द॒र्श॒तः ।
सः । माता॑ । पू॒र्व्यम् । प॒दम् । तत् । वरु॑णस्य । सप्त्य॑म् । सः । हि । गो॒पाःऽइ॑व । इर्यः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
यः । ककुभः । निऽधारयः । पृथिव्याम् । अधि । दर्शतः ।
सः । माता । पूर्व्यम् । पदम् । तत् । वरुणस्य । सप्त्यम् । सः । हि । गोपाःऽइव । इर्यः । नभन्ताम् । अन्यके । समे ॥
yáḥ ǀ kakúbhaḥ ǀ ni-dhārayáḥ ǀ pṛthivyā́m ǀ ádhi ǀ darśatáḥ ǀ
sáḥ ǀ mā́tā ǀ pūrvyám ǀ padám ǀ tát ǀ váruṇasya ǀ sáptyam ǀ sáḥ ǀ hí ǀ gopā́ḥ-iva ǀ íryaḥ ǀ nábhantām ǀ anyaké ǀ same ǁ
yaḥ ǀ kakubhaḥ ǀ ni-dhārayaḥ ǀ pṛthivyām ǀ adhi ǀ darśataḥ ǀ
saḥ ǀ mātā ǀ pūrvyam ǀ padam ǀ tat ǀ varuṇasya ǀ saptyam ǀ saḥ ǀ hi ǀ gopāḥ-iva ǀ iryaḥ ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.041.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.26.04
- Maṇḍala · Anuvāka · Ṛk
- 08.05.159
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.