Ṛgveda · Maṇḍala 8 · Sūkta 41

Ṛk 8.41.8

Varuṇa · Nābhāka Kāṇva

The whole sūkta Link

Saṃhitā

स स॑मु॒द्रो अ॑पी॒च्य॑स्तु॒रो द्यामि॑व रोहति॒ नि यदा॑सु॒ यजु॑र्द॒धे ।
स मा॒या अ॒र्चिना॑ प॒दास्तृ॑णा॒न्नाक॒मारु॑ह॒न्नभं॑तामन्य॒के स॑मे ॥

स समुद्रो अपीच्यस् तुरो द्याम् इव रोहति नि यद् आसु यजुर् दधे |
स माया अर्चिना पदास्तृणान् नाकम् आरुहन् नभन्ताम् अन्यके समे ||

sá samudró apīcyásturó dyā́miva rohati ní yádāsu yájurdadhé ǀ
sá māyā́ arcínā padā́stṛṇānnā́kamā́ruhannábhantāmanyaké same ǁ

sa samudro apīcyas turo dyām iva rohati ni yad āsu yajur dadhe |
sa māyā arcinā padāstṛṇān nākam āruhan nabhantām anyake same ||

Padapāṭha

सः । स॒मु॒द्रः । अ॒पी॒च्यः॑ । तु॒रः । द्याम्ऽइ॑व । रो॒ह॒ति॒ । नि । यत् । आ॒सु॒ । यजुः॑ । द॒धे ।
सः । मा॒याः । अ॒र्चिना॑ । प॒दा । अस्तृ॑णात् । नाक॑म् । आ । अ॒रु॒ह॒त् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सः । समुद्रः । अपीच्यः । तुरः । द्याम्ऽइव । रोहति । नि । यत् । आसु । यजुः । दधे ।
सः । मायाः । अर्चिना । पदा । अस्तृणात् । नाकम् । आ । अरुहत् । नभन्ताम् । अन्यके । समे ॥

sáḥ ǀ samudráḥ ǀ apīcyáḥ ǀ turáḥ ǀ dyā́m-iva ǀ rohati ǀ ní ǀ yát ǀ āsu ǀ yájuḥ ǀ dadhé ǀ
sáḥ ǀ māyā́ḥ ǀ arcínā ǀ padā́ ǀ ástṛṇāt ǀ nā́kam ǀ ā́ ǀ aruhat ǀ nábhantām ǀ anyaké ǀ same ǁ

saḥ ǀ samudraḥ ǀ apīcyaḥ ǀ turaḥ ǀ dyām-iva ǀ rohati ǀ ni ǀ yat ǀ āsu ǀ yajuḥ ǀ dadhe ǀ
saḥ ǀ māyāḥ ǀ arcinā ǀ padā ǀ astṛṇāt ǀ nākam ǀ ā ǀ aruhat ǀ nabhantām ǀ anyake ǀ same ǁ

References

Maṇḍala · Sūkta · Ṛk
08.041.08
Aṣṭaka · Adhyāya · Varga · Ṛk
6.3.27.03
Maṇḍala · Anuvāka · Ṛk
08.05.163
Devatā देवता
Varuṇa
Ṛṣi ऋषि
Nābhāka Kāṇva
Chandas छन्दस्
Mahāpaṅkti
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.41.8

Interpretations

Ralph T. H. Griffith

He is an Ocean far-removed, yet through the heaven to him ascends the worship which these realms possess. With his bright foot he overthrew their magic, and went up to heaven.