Ṛk 8.80.6
Saṃhitā
अवा॑ नो वाज॒युं रथं॑ सु॒करं॑ ते॒ किमित्परि॑ ।
अ॒स्मान्त्सु जि॒ग्युष॑स्कृधि ॥
अवा नो वाजयुं रथं सुकरं ते किम् इत् परि |
अस्मान् सु जिग्युषस् कृधि ||
ávā no vājayúm rátham sukáram te kímítpári ǀ
asmā́ntsú jigyúṣaskṛdhi ǁ
avā no vājayuṃ rathaṃ sukaraṃ te kim it pari |
asmān su jigyuṣas kṛdhi ||
Padapāṭha
अव॑ । नः॒ । वा॒ज॒ऽयुम् । रथ॑म् । सु॒ऽकर॑म् । ते॒ । किम् । इत् । परि॑ ।
अ॒स्मान् । सु । जि॒ग्युषः॑ । कृ॒धि॒ ॥
अव । नः । वाजऽयुम् । रथम् । सुऽकरम् । ते । किम् । इत् । परि ।
अस्मान् । सु । जिग्युषः । कृधि ॥
áva ǀ naḥ ǀ vāja-yúm ǀ rátham ǀ su-káram ǀ te ǀ kím ǀ ít ǀ pári ǀ
asmā́n ǀ sú ǀ jigyúṣaḥ ǀ kṛdhi ǁ
ava ǀ naḥ ǀ vāja-yum ǀ ratham ǀ su-karam ǀ te ǀ kim ǀ it ǀ pari ǀ
asmān ǀ su ǀ jigyuṣaḥ ǀ kṛdhi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.080.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.5.36.01
- Maṇḍala · Anuvāka · Ṛk
- 08.08.145
- Devatā देवता
- 1-9: Indra; 10: Devāḥ
- Ṛṣi ऋषि
- Ekadyū Naudhasa
- Chandas छन्दस्
- Gāyatrī, Triṣṭubh
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.