Ṛgveda · Maṇḍala 8 · Sūkta 80

Ṛk 8.80.7

Indra · Devāḥ · Ekadyū Naudhasa

The whole sūkta Link

Saṃhitā

इंद्र॒ दृह्य॑स्व॒ पूर॑सि भ॒द्रा त॑ एति निष्कृ॒तं ।
इ॒यं धीर्ऋ॒त्विया॑वती ॥

इन्द्र दृह्यस्व पूर् असि भद्रा त एति निष्कृतम् |
इयं धीर् ऋत्वियावती ||

índra dṛ́hyasva pū́rasi bhadrā́ ta eti niṣkṛtám ǀ
iyám dhī́rṛtvíyāvatī ǁ

indra dṛhyasva pūr asi bhadrā ta eti niṣkṛtam |
iyaṃ dhīr ṛtviyāvatī ||

Padapāṭha

इन्द्र॑ । दृह्य॑स्व । पूः । अ॒सि॒ । भ॒द्रा । ते॒ । ए॒ति॒ । निः॒ऽकृ॒तम् ।
इ॒यम् । धीः । ऋ॒त्विय॑ऽवती ॥

इन्द्र । दृह्यस्व । पूः । असि । भद्रा । ते । एति । निःऽकृतम् ।
इयम् । धीः । ऋत्वियऽवती ॥

índra ǀ dṛ́hyasva ǀ pū́ḥ ǀ asi ǀ bhadrā́ ǀ te ǀ eti ǀ niḥ-kṛtám ǀ
iyám ǀ dhī́ḥ ǀ ṛtvíya-vatī ǁ

indra ǀ dṛhyasva ǀ pūḥ ǀ asi ǀ bhadrā ǀ te ǀ eti ǀ niḥ-kṛtam ǀ
iyam ǀ dhīḥ ǀ ṛtviya-vatī ǁ

References

Maṇḍala · Sūkta · Ṛk
08.080.07
Aṣṭaka · Adhyāya · Varga · Ṛk
6.5.36.02
Maṇḍala · Anuvāka · Ṛk
08.08.146
Devatā देवता
1-9: Indra; 10: Devāḥ
Ṛṣi ऋषि
Ekadyū Naudhasa
Chandas छन्दस्
Gāyatrī, Triṣṭubh
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.80.7

Interpretations

Sāyaṇa

हे इन्द्र त्वं दृह्यस्व दृढोभव संग्रामे त्वं पूरसि पूरयसि यथा पुरमविचलितं तद्वत्त्वमसि । अथवास्मदीये यज्ञे दृढोभव त्वं पुनरन्ययज्ञं जिगमिषुर्माभूः त्वं पूः पूरकः कामानामसि । किमत्र विद्यतइति चेत् उच्यते-निष्कृतं निष्कर्तारं ते त्वां भद्रा कल्याणी इयं धीः स्तुतिः क्रिया वा ऋत्वियावती ऋतुशब्दः कालोपलक्षकः स्वकालोपेता सती एति गच्छति । यद्वा ते निष्कृतं स्थानमेति ॥ ७ ॥