Ṛgveda · Maṇḍala 8 · Sūkta 80

Ṛk 8.80.10

Indra · Devāḥ · Ekadyū Naudhasa

The whole sūkta Link

Saṃhitā

अवी॑वृधद्वो अमृता॒ अमं॑दीदेक॒द्यूर्दे॑वा उ॒त याश्च॑ देवीः ।
तस्मा॑ उ॒ राधः॑ कृणुत प्रश॒स्तं प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥

अवीवृधद् वो अमृता अमन्दीद् एकद्यूर् देवा उत याश् च देवीः |
तस्मा उ राधः कृणुत प्रशस्तम् प्रातर् मक्षू धियावसुर् जगम्यात् ||

ávīvṛdhadvo amṛtā ámandīdekadyū́rdevā utá yā́śca devīḥ ǀ
tásmā u rā́dhaḥ kṛṇuta praśastám prātármakṣū́ dhiyā́vasurjagamyāt ǁ

avīvṛdhad vo amṛtā amandīd ekadyūr devā uta yāś ca devīḥ |
tasmā u rādhaḥ kṛṇuta praśastam prātar makṣū dhiyāvasur jagamyāt ||

Padapāṭha

अवी॑वृधत् । वः॒ । अ॒मृ॒ताः॒ । अम॑न्दीत् । ए॒क॒ऽद्यूः । दे॒वाः॒ । उ॒त । याः । च॒ । दे॒वीः॒ ।
तस्मै॑ । ऊं॒ इति॑ । राधः॑ । कृ॒णु॒त॒ । प्र॒ऽश॒स्तम् । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥

अवीवृधत् । वः । अमृताः । अमन्दीत् । एकऽद्यूः । देवाः । उत । याः । च । देवीः ।
तस्मै । ऊं इति । राधः । कृणुत । प्रऽशस्तम् । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥

ávīvṛdhat ǀ vaḥ ǀ amṛtāḥ ǀ ámandīt ǀ eka-dyū́ḥ ǀ devāḥ ǀ utá ǀ yā́ḥ ǀ ca ǀ devīḥ ǀ
tásmai ǀ ūṃ íti ǀ rā́dhaḥ ǀ kṛṇuta ǀ pra-śastám ǀ prātáḥ ǀ makṣú ǀ dhiyā́-vasuḥ ǀ jagamyāt ǁ

avīvṛdhat ǀ vaḥ ǀ amṛtāḥ ǀ amandīt ǀ eka-dyūḥ ǀ devāḥ ǀ uta ǀ yāḥ ǀ ca ǀ devīḥ ǀ
tasmai ǀ ūṃ iti ǀ rādhaḥ ǀ kṛṇuta ǀ pra-śastam ǀ prātaḥ ǀ makṣu ǀ dhiyā-vasuḥ ǀ jagamyāt ǁ

References

Maṇḍala · Sūkta · Ṛk
08.080.10
Aṣṭaka · Adhyāya · Varga · Ṛk
6.5.36.05
Maṇḍala · Anuvāka · Ṛk
08.08.149
Devatā देवता
1-9: Indra; 10: Devāḥ
Ṛṣi ऋषि
Ekadyū Naudhasa
Chandas छन्दस्
Gāyatrī, Triṣṭubh
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 8.80.10

Interpretations

Sāyaṇa

नवमेनुवाके त्रयोदशसूक्तानि । तत्रातूनइन्द्रेति नवर्चं प्रथमं सूक्तं कण्वपुत्रस्य कुसीदिनआर्षं गायत्रमैन्द्रं । तथाचानुक्रम्यते-आतूनोनवकुसी- दीकाण्वइति । महाव्रते निष्केवल्ये गायत्रतृचाशीतावेतदादिके द्वे सूक्ते । तथैव पंचमारण्यके सूत्रितंच शौनकेन-आतूनइन्द्रक्षुमंतमिति सूक्ते सूददोहाइति । द्वितीये पर्याये मैत्रावरुणशस्त्रे आद्यस्तृचः स्तोत्रियः । सूत्रितंच-आतूनइन्द्रक्षुमन्तमाप्रद्रवपरावतइति ।