Ṛk 8.50.1
Saṃhitā
प्र सु श्रु॒तं सु॒राध॑स॒मर्चा॑ श॒क्रम॒भिष्ट॑ये ।
यः सु॑न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे॑णेव॒ मंह॑ते ॥
प्र सु श्रुतं सुराधसम् अर्चा शक्रम् अभिष्टये |
यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ||
prá sú śrutám surā́dhasamárcā śakrámabhíṣṭaye ǀ
yáḥ sunvaté stuvaté kā́myam vásu sahásreṇeva máṃhate ǁ
pra su śrutaṃ surādhasam arcā śakram abhiṣṭaye |
yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate ||
Padapāṭha
प्र । सु । श्रु॒तम् । सु॒ऽराध॑सम् । अर्च॑ । श॒क्रम् । अ॒भिष्ट॑ये ।
यः । सु॒न्व॒ते । स्तु॒व॒ते । काम्य॑म् । वसु॑ । स॒हस्रे॑णऽइव । मंह॑ते ॥
प्र । सु । श्रुतम् । सुऽराधसम् । अर्च । शक्रम् । अभिष्टये ।
यः । सुन्वते । स्तुवते । काम्यम् । वसु । सहस्रेणऽइव । मंहते ॥
prá ǀ sú ǀ śrutám ǀ su-rā́dhasam ǀ árca ǀ śakrám ǀ abhíṣṭaye ǀ
yáḥ ǀ sunvaté ǀ stuvaté ǀ kā́myam ǀ vásu ǀ sahásreṇa-iva ǀ máṃhate ǁ
pra ǀ su ǀ śrutam ǀ su-rādhasam ǀ arca ǀ śakram ǀ abhiṣṭaye ǀ
yaḥ ǀ sunvate ǀ stuvate ǀ kāmyam ǀ vasu ǀ sahasreṇa-iva ǀ maṃhate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.050.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.16.01
- Maṇḍala · Anuvāka · Ṛk
- 08.06.182
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Puṣṭigu Kāṇva
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.