Ṛk 8.40.10
Saṃhitā
तं शि॑शीता सुवृ॒क्तिभि॑स्त्वे॒षं सत्वा॑नमृ॒ग्मियं॑ ।
उ॒तो नु चि॒द्य ओज॑सा॒ शुष्ण॑स्यां॒डानि॒ भेद॑ति॒ जेष॒त्स्व॑र्वतीर॒पो नभं॑तामन्य॒के स॑मे ॥
तं शिशीता सुवृक्तिभिस् त्वेषं सत्वानम् ऋग्मियम् |
उतो नु चिद् य ओजसा शुष्णस्याण्डानि भेदति जेषत् स्वर्वतीर् अपो नभन्ताम् अन्यके समे ||
tám śiśītā suvṛktíbhistveṣám sátvānamṛgmíyam ǀ
utó nú cidyá ójasā śúṣṇasyāṇḍā́ni bhédati jéṣatsvárvatīrapó nábhantāmanyaké same ǁ
taṃ śiśītā suvṛktibhis tveṣaṃ satvānam ṛgmiyam |
uto nu cid ya ojasā śuṣṇasyāṇḍāni bhedati jeṣat svarvatīr apo nabhantām anyake same ||
Padapāṭha
तम् । शि॒शी॒त॒ । सु॒वृ॒क्तिऽभिः॑ । त्वे॒षम् । सत्वा॑नम् । ऋ॒ग्मिय॑म् ।
उ॒तो इति॑ । नु । चि॒त् । यः । ओज॑सा । शुष्ण॑स्य । आ॒ण्डानि॑ । भेद॑ति । जेष॑त् । स्वः॑ऽवतीः । अ॒पः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
तम् । शिशीत । सुवृक्तिऽभिः । त्वेषम् । सत्वानम् । ऋग्मियम् ।
उतो इति । नु । चित् । यः । ओजसा । शुष्णस्य । आण्डानि । भेदति । जेषत् । स्वःऽवतीः । अपः । नभन्ताम् । अन्यके । समे ॥
tám ǀ śiśīta ǀ suvṛktí-bhiḥ ǀ tveṣám ǀ sátvānam ǀ ṛgmíyam ǀ
utó íti ǀ nú ǀ cit ǀ yáḥ ǀ ójasā ǀ śúṣṇasya ǀ āṇḍā́ni ǀ bhédati ǀ jéṣat ǀ sváḥ-vatīḥ ǀ apáḥ ǀ nábhantām ǀ anyaké ǀ same ǁ
tam ǀ śiśīta ǀ suvṛkti-bhiḥ ǀ tveṣam ǀ satvānam ǀ ṛgmiyam ǀ
uto iti ǀ nu ǀ cit ǀ yaḥ ǀ ojasā ǀ śuṣṇasya ǀ āṇḍāni ǀ bhedati ǀ jeṣat ǀ svaḥ-vatīḥ ǀ apaḥ ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.040.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.25.04
- Maṇḍala · Anuvāka · Ṛk
- 08.05.153
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti, Śakvarī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.