Ṛk 8.40.4
Saṃhitā
अ॒भ्य॑र्च नभाक॒वदिं॑द्रा॒ग्नी य॒जसा॑ गि॒रा ।
ययो॒र्विश्व॑मि॒दं जग॑दि॒यं द्यौः पृ॑थि॒वी म॒ह्यु१॒॑पस्थे॑ बिभृ॒तो वसु॒ नभं॑तामन्य॒के स॑मे ॥
अभ्य् अर्च नभाकवद् इन्द्राग्नी यजसा गिरा |
ययोर् विश्वम् इदं जगद् इयं द्यौः पृथिवी मह्य् उपस्थे बिभृतो वसु नभन्ताम् अन्यके समे ||
abhyárca nabhākavádindrāgnī́ yajásā girā́ ǀ
yáyorvíśvamidám jágadiyám dyáuḥ pṛthivī́ mahyúpásthe bibhṛtó vásu nábhantāmanyaké same ǁ
abhy arca nabhākavad indrāgnī yajasā girā |
yayor viśvam idaṃ jagad iyaṃ dyauḥ pṛthivī mahy upasthe bibhṛto vasu nabhantām anyake same ||
Padapāṭha
अ॒भि । अ॒र्च॒ । न॒भा॒क॒ऽवत् । इ॒न्द्रा॒ग्नी इति॑ । य॒जसा॑ । गि॒रा ।
ययोः॑ । विश्व॑म् । इ॒दम् । जग॑त् । इ॒यम् । द्यौः । पृ॒थि॒वी । म॒ही । उ॒पऽस्थे॑ । बि॒भृ॒तः । वसु॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
अभि । अर्च । नभाकऽवत् । इन्द्राग्नी इति । यजसा । गिरा ।
ययोः । विश्वम् । इदम् । जगत् । इयम् । द्यौः । पृथिवी । मही । उपऽस्थे । बिभृतः । वसु । नभन्ताम् । अन्यके । समे ॥
abhí ǀ arca ǀ nabhāka-vát ǀ indrāgnī́ íti ǀ yajásā ǀ girā́ ǀ
yáyoḥ ǀ víśvam ǀ idám ǀ jágat ǀ iyám ǀ dyáuḥ ǀ pṛthivī́ ǀ mahī́ ǀ upá-sthe ǀ bibhṛtáḥ ǀ vásu ǀ nábhantām ǀ anyaké ǀ same ǁ
abhi ǀ arca ǀ nabhāka-vat ǀ indrāgnī iti ǀ yajasā ǀ girā ǀ
yayoḥ ǀ viśvam ǀ idam ǀ jagat ǀ iyam ǀ dyauḥ ǀ pṛthivī ǀ mahī ǀ upa-sthe ǀ bibhṛtaḥ ǀ vasu ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.040.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.24.04
- Maṇḍala · Anuvāka · Ṛk
- 08.05.147
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti, Śakvarī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.