Ṛk 8.40.11
Saṃhitā
तं शि॑शीता स्वध्व॒रं स॒त्यं सत्वा॑नमृ॒त्वियं॑ ।
उ॒तो नु चि॒द्य ओह॑त आं॒डा शुष्ण॑स्य॒ भेद॒त्यजैः॒ स्व॑र्वतीर॒पो नभं॑तामन्य॒के स॑मे ॥
तं शिशीता स्वध्वरं सत्यं सत्वानम् ऋत्वियम् |
उतो नु चिद् य ओहत आण्डा शुष्णस्य भेदत्य् अजैः स्वर्वतीर् अपो नभन्ताम् अन्यके समे ||
tám śiśītā svadhvarám satyám sátvānamṛtvíyam ǀ
utó nú cidyá óhata āṇḍā́ śúṣṇasya bhédatyájaiḥ svárvatīrapó nábhantāmanyaké same ǁ
taṃ śiśītā svadhvaraṃ satyaṃ satvānam ṛtviyam |
uto nu cid ya ohata āṇḍā śuṣṇasya bhedaty ajaiḥ svarvatīr apo nabhantām anyake same ||
Padapāṭha
तम् । शि॒शी॒त॒ । सु॒ऽअ॒ध्व॒रम् । स॒त्यम् । सत्वा॑नम् । ऋ॒त्विय॑म् ।
उ॒तो इति॑ । नु । चि॒त् । यः । ओह॑ते । आ॒ण्डा । शुष्ण॑स्य । भेद॑ति । अजैः॑ । स्वः॑ऽवतीः । अ॒पः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
तम् । शिशीत । सुऽअध्वरम् । सत्यम् । सत्वानम् । ऋत्वियम् ।
उतो इति । नु । चित् । यः । ओहते । आण्डा । शुष्णस्य । भेदति । अजैः । स्वःऽवतीः । अपः । नभन्ताम् । अन्यके । समे ॥
tám ǀ śiśīta ǀ su-adhvarám ǀ satyám ǀ sátvānam ǀ ṛtvíyam ǀ
utó íti ǀ nú ǀ cit ǀ yáḥ ǀ óhate ǀ āṇḍā́ ǀ śúṣṇasya ǀ bhédati ǀ ájaiḥ ǀ sváḥ-vatīḥ ǀ apáḥ ǀ nábhantām ǀ anyaké ǀ same ǁ
tam ǀ śiśīta ǀ su-adhvaram ǀ satyam ǀ satvānam ǀ ṛtviyam ǀ
uto iti ǀ nu ǀ cit ǀ yaḥ ǀ ohate ǀ āṇḍā ǀ śuṣṇasya ǀ bhedati ǀ ajaiḥ ǀ svaḥ-vatīḥ ǀ apaḥ ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.040.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.25.05
- Maṇḍala · Anuvāka · Ṛk
- 08.05.154
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti, Śakvarī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.