Ṛk 8.40.1
Saṃhitā
इंद्रा॑ग्नी यु॒वं सु नः॒ सहं॑ता॒ दास॑थो र॒यिं ।
येन॑ दृ॒ळ्हा स॒मत्स्वा वी॒ळु चि॑त्साहिषी॒मह्य॒ग्निर्वने॑व॒ वात॒ इन्नभं॑तामन्य॒के स॑मे ॥
इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम् |
येन दृऌहा समत्स्व् आ वीऌउ चित् साहिषीमह्य् अग्निर् वनेव वात इन् नभन्ताम् अन्यके समे ||
índrāgnī yuvám sú naḥ sáhantā dā́satho rayím ǀ
yéna dṛḷhā́ samátsvā́ vīḷú citsāhiṣīmáhyagnírváneva vā́ta ínnábhantāmanyaké same ǁ
indrāgnī yuvaṃ su naḥ sahantā dāsatho rayim |
yena dṛḷhā samatsv ā vīḷu cit sāhiṣīmahy agnir vaneva vāta in nabhantām anyake same ||
Padapāṭha
इन्द्रा॑ग्नी॒ इति॑ । यु॒वम् । सु । नः॒ । सह॑न्ता । दास॑थः । र॒यिम् ।
येन॑ । दृ॒ळ्हा । स॒मत्ऽसु॑ । आ । वी॒ळु । चि॒त् । स॒हि॒षी॒महि॑ । अ॒ग्निः । वना॑ऽइव । वाते॑ । इत् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
इन्द्राग्नी इति । युवम् । सु । नः । सहन्ता । दासथः । रयिम् ।
येन । दृळ्हा । समत्ऽसु । आ । वीळु । चित् । सहिषीमहि । अग्निः । वनाऽइव । वाते । इत् । नभन्ताम् । अन्यके । समे ॥
índrāgnī íti ǀ yuvám ǀ sú ǀ naḥ ǀ sáhantā ǀ dā́sathaḥ ǀ rayím ǀ
yéna ǀ dṛḷhā́ ǀ samát-su ǀ ā́ ǀ vīḷú ǀ cit ǀ sahiṣīmáhi ǀ agníḥ ǀ vánā-iva ǀ vā́te ǀ ít ǀ nábhantām ǀ anyaké ǀ same ǁ
indrāgnī iti ǀ yuvam ǀ su ǀ naḥ ǀ sahantā ǀ dāsathaḥ ǀ rayim ǀ
yena ǀ dṛḷhā ǀ samat-su ǀ ā ǀ vīḷu ǀ cit ǀ sahiṣīmahi ǀ agniḥ ǀ vanā-iva ǀ vāte ǀ it ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.040.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.24.01
- Maṇḍala · Anuvāka · Ṛk
- 08.05.144
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti, Śakvarī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.