Ṛk 8.40.8
Saṃhitā
या नु श्वे॒ताव॒वो दि॒व उ॒च्चरा॑त॒ उप॒ द्युभिः॑ ।
इं॒द्रा॒ग्न्योरनु॑ व्र॒तमुहा॑ना यंति॒ सिंध॑वो॒ यान्त्सीं॑ बं॒धादमुं॑चतां॒ नभं॑तामन्य॒के स॑मे ॥
या नु श्वेताव् अवो दिव उच्चरात उप द्युभिः |
इन्द्राग्न्योर् अनु व्रतम् उहाना यन्ति सिन्धवो यान् सीम् बन्धाद् अमुञ्चतां नभन्ताम् अन्यके समे ||
yā́ nú śvetā́vavó divá uccárāta úpa dyúbhiḥ ǀ
indrāgnyóránu vratámúhānā yanti síndhavo yā́ntsīm bandhā́dámuñcatām nábhantāmanyaké same ǁ
yā nu śvetāv avo diva uccarāta upa dyubhiḥ |
indrāgnyor anu vratam uhānā yanti sindhavo yān sīm bandhād amuñcatāṃ nabhantām anyake same ||
Padapāṭha
या । नु । श्वे॒तौ । अ॒वः । दि॒वः । उ॒त्ऽचरा॑तः । उप॑ । द्युऽभिः॑ ।
इ॒न्द्रा॒ग्न्योः । अनु॑ । व्र॒तम् । उहा॑नाः । य॒न्ति॒ । सिन्ध॑वः । यान् । सी॒म् । ब॒न्धात् । अमु॑ञ्चताम् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
या । नु । श्वेतौ । अवः । दिवः । उत्ऽचरातः । उप । द्युऽभिः ।
इन्द्राग्न्योः । अनु । व्रतम् । उहानाः । यन्ति । सिन्धवः । यान् । सीम् । बन्धात् । अमुञ्चताम् । नभन्ताम् । अन्यके । समे ॥
yā́ ǀ nú ǀ śvetáu ǀ aváḥ ǀ diváḥ ǀ ut-cárātaḥ ǀ úpa ǀ dyú-bhiḥ ǀ
indrāgnyóḥ ǀ ánu ǀ vratám ǀ úhānāḥ ǀ yanti ǀ síndhavaḥ ǀ yā́n ǀ sīm ǀ bandhā́t ǀ ámuñcatām ǀ nábhantām ǀ anyaké ǀ same ǁ
yā ǀ nu ǀ śvetau ǀ avaḥ ǀ divaḥ ǀ ut-carātaḥ ǀ upa ǀ dyu-bhiḥ ǀ
indrāgnyoḥ ǀ anu ǀ vratam ǀ uhānāḥ ǀ yanti ǀ sindhavaḥ ǀ yān ǀ sīm ǀ bandhāt ǀ amuñcatām ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.040.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.25.02
- Maṇḍala · Anuvāka · Ṛk
- 08.05.151
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti, Śakvarī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.