Ṛk 8.40.3
Saṃhitā
ता हि मध्यं॒ भरा॑णामिंद्रा॒ग्नी अ॑धिक्षि॒तः ।
ता उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा॑ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभं॑तामन्य॒के स॑मे ॥
ता हि मध्यम् भराणाम् इन्द्राग्नी अधिक्षितः |
ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतम् अश्नुतं नरा नभन्ताम् अन्यके समे ||
tā́ hí mádhyam bhárāṇāmindrāgnī́ adhikṣitáḥ ǀ
tā́ u kavitvanā́ kavī́ pṛcchyámānā sakhīyaté sám dhītámaśnutam narā nábhantāmanyaké same ǁ
tā hi madhyam bharāṇām indrāgnī adhikṣitaḥ |
tā u kavitvanā kavī pṛcchyamānā sakhīyate saṃ dhītam aśnutaṃ narā nabhantām anyake same ||
Padapāṭha
ता । हि । मध्य॑म् । भरा॑णाम् । इ॒न्द्रा॒ग्नी इति॑ । अ॒धि॒ऽक्षि॒तः ।
ता । ऊं॒ इति॑ । क॒वि॒ऽत्व॒ना । क॒वी इति॑ । पृ॒च्छ्यमा॑ना । स॒खि॒ऽय॒ते । सम् । धी॒तम् । अ॒श्नु॒त॒म् । न॒रा॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
ता । हि । मध्यम् । भराणाम् । इन्द्राग्नी इति । अधिऽक्षितः ।
ता । ऊं इति । कविऽत्वना । कवी इति । पृच्छ्यमाना । सखिऽयते । सम् । धीतम् । अश्नुतम् । नरा । नभन्ताम् । अन्यके । समे ॥
tā́ ǀ hí ǀ mádhyam ǀ bhárāṇām ǀ indrāgnī́ íti ǀ adhi-kṣitáḥ ǀ
tā́ ǀ ūṃ íti ǀ kavi-tvanā́ ǀ kavī́ íti ǀ pṛcchyámānā ǀ sakhi-yaté ǀ sám ǀ dhītám ǀ aśnutam ǀ narā ǀ nábhantām ǀ anyaké ǀ same ǁ
tā ǀ hi ǀ madhyam ǀ bharāṇām ǀ indrāgnī iti ǀ adhi-kṣitaḥ ǀ
tā ǀ ūṃ iti ǀ kavi-tvanā ǀ kavī iti ǀ pṛcchyamānā ǀ sakhi-yate ǀ sam ǀ dhītam ǀ aśnutam ǀ narā ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.040.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.24.03
- Maṇḍala · Anuvāka · Ṛk
- 08.05.146
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti, Śakvarī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.