Ṛk 8.40.5
Saṃhitā
प्र ब्रह्मा॑णि नभाक॒वदिं॑द्रा॒ग्निभ्या॑मिरज्यत ।
या स॒प्तबु॑ध्नमर्ण॒वं जि॒ह्मबा॑रमपोर्णु॒त इंद्र॒ ईशा॑न॒ ओज॑सा॒ नभं॑तामन्य॒के स॑मे ॥
प्र ब्रह्माणि नभाकवद् इन्द्राग्निभ्याम् इरज्यत |
या सप्तबुध्नम् अर्णवं जिह्मबारम् अपोर्णुत इन्द्र ईशान ओजसा नभन्ताम् अन्यके समे ||
prá bráhmāṇi nabhākavádindrāgníbhyāmirajyata ǀ
yā́ saptábudhnamarṇavám jihmábāramaporṇutá índra ī́śāna ójasā nábhantāmanyaké same ǁ
pra brahmāṇi nabhākavad indrāgnibhyām irajyata |
yā saptabudhnam arṇavaṃ jihmabāram aporṇuta indra īśāna ojasā nabhantām anyake same ||
Padapāṭha
प्र । ब्रह्मा॑णि । न॒भा॒क॒ऽवत् । इ॒न्द्रा॒ग्निऽभ्या॑म् । इ॒र॒ज्य॒त॒ ।
या । स॒प्तऽबु॑ध्नम् । अ॒र्ण॒वम् । जि॒ह्मऽबा॑रम् । अ॒प॒ऽऊ॒र्णु॒तः । इन्द्रः॑ । ईशा॑नः । ओज॑सा । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
प्र । ब्रह्माणि । नभाकऽवत् । इन्द्राग्निऽभ्याम् । इरज्यत ।
या । सप्तऽबुध्नम् । अर्णवम् । जिह्मऽबारम् । अपऽऊर्णुतः । इन्द्रः । ईशानः । ओजसा । नभन्ताम् । अन्यके । समे ॥
prá ǀ bráhmāṇi ǀ nabhāka-vát ǀ indrāgní-bhyām ǀ irajyata ǀ
yā́ ǀ saptá-budhnam ǀ arṇavám ǀ jihmá-bāram ǀ apa-ūrṇutáḥ ǀ índraḥ ǀ ī́śānaḥ ǀ ójasā ǀ nábhantām ǀ anyaké ǀ same ǁ
pra ǀ brahmāṇi ǀ nabhāka-vat ǀ indrāgni-bhyām ǀ irajyata ǀ
yā ǀ sapta-budhnam ǀ arṇavam ǀ jihma-bāram ǀ apa-ūrṇutaḥ ǀ indraḥ ǀ īśānaḥ ǀ ojasā ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.040.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.24.05
- Maṇḍala · Anuvāka · Ṛk
- 08.05.148
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti, Śakvarī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.