Ṛk 8.40.6
Saṃhitā
अपि॑ वृश्च पुराण॒वद्व्र॒तते॑रिव गुष्पि॒तमोजो॑ दा॒सस्य॑ दंभय ।
व॒यं तद॑स्य॒ संभृ॑तं॒ वस्विंद्रे॑ण॒ वि भ॑जेमहि॒ नभं॑तामन्य॒के स॑मे ॥
अपि वृश्च पुराणवद् व्रततेर् इव गुष्पितम् ओजो दासस्य दम्भय |
वयं तद् अस्य सम्भृतं वस्व् इन्द्रेण वि भजेमहि नभन्ताम् अन्यके समे ||
ápi vṛśca purāṇavádvratáteriva guṣpitámójo dāsásya dambhaya ǀ
vayám tádasya sámbhṛtam vásvíndreṇa ví bhajemahi nábhantāmanyaké same ǁ
api vṛśca purāṇavad vratater iva guṣpitam ojo dāsasya dambhaya |
vayaṃ tad asya sambhṛtaṃ vasv indreṇa vi bhajemahi nabhantām anyake same ||
Padapāṭha
अपि॑ । वृ॒श्च॒ । पु॒रा॒ण॒ऽवत् । व्र॒ततेः॑ऽइव । गु॒ष्पि॒तम् । ओजः॑ । दा॒सस्य॑ । द॒म्भ॒य॒ ।
व॒यम् । तत् । अ॒स्य॒ । सम्ऽभृ॑तम् । वसु॑ । इन्द्रे॑ण । वि । भ॒जे॒म॒हि॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
अपि । वृश्च । पुराणऽवत् । व्रततेःऽइव । गुष्पितम् । ओजः । दासस्य । दम्भय ।
वयम् । तत् । अस्य । सम्ऽभृतम् । वसु । इन्द्रेण । वि । भजेमहि । नभन्ताम् । अन्यके । समे ॥
ápi ǀ vṛśca ǀ purāṇa-vát ǀ vratáteḥ-iva ǀ guṣpitám ǀ ójaḥ ǀ dāsásya ǀ dambhaya ǀ
vayám ǀ tát ǀ asya ǀ sám-bhṛtam ǀ vásu ǀ índreṇa ǀ ví ǀ bhajemahi ǀ nábhantām ǀ anyaké ǀ same ǁ
api ǀ vṛśca ǀ purāṇa-vat ǀ vratateḥ-iva ǀ guṣpitam ǀ ojaḥ ǀ dāsasya ǀ dambhaya ǀ
vayam ǀ tat ǀ asya ǀ sam-bhṛtam ǀ vasu ǀ indreṇa ǀ vi ǀ bhajemahi ǀ nabhantām ǀ anyake ǀ same ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.040.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.24.06
- Maṇḍala · Anuvāka · Ṛk
- 08.05.149
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Nābhāka Kāṇva
- Chandas छन्दस्
- Mahāpaṅkti, Śakvarī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.