Ṛk 8.62.11
Saṃhitā
अ॒हं च॒ त्वं च॑ वृत्रह॒न्त्सं यु॑ज्याव स॒निभ्य॒ आ ।
अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मंसते भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥
अहं च त्वं च वृत्रहन् सं युज्याव सनिभ्य आ |
अरातीवा चिद् अद्रिवो ऽनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः ||
ahám ca tvám ca vṛtrahantsám yujyāva saníbhya ā́ ǀ
arātīvā́ cidadrivó’nu nau śūra maṃsate bhadrā́ índrasya rātáyaḥ ǁ
ahaṃ ca tvaṃ ca vṛtrahan saṃ yujyāva sanibhya ā |
arātīvā cid adrivo 'nu nau śūra maṃsate bhadrā indrasya rātayaḥ ||
Padapāṭha
अ॒हम् । च॒ । त्वम् । च॒ । वृ॒त्र॒ऽह॒न् । सम् । यु॒ज्या॒व॒ । स॒निऽभ्यः॑ । आ ।
अ॒रा॒ति॒ऽवा । चि॒त् । अ॒द्रि॒ऽवः॒ । अनु॑ । नौ॒ । शू॒र॒ । मं॒स॒ते॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥
अहम् । च । त्वम् । च । वृत्रऽहन् । सम् । युज्याव । सनिऽभ्यः । आ ।
अरातिऽवा । चित् । अद्रिऽवः । अनु । नौ । शूर । मंसते । भद्राः । इन्द्रस्य । रातयः ॥
ahám ǀ ca ǀ tvám ǀ ca ǀ vṛtra-han ǀ sám ǀ yujyāva ǀ saní-bhyaḥ ǀ ā́ ǀ
arāti-vā́ ǀ cit ǀ adri-vaḥ ǀ ánu ǀ nau ǀ śūra ǀ maṃsate ǀ bhadrā́ḥ ǀ índrasya ǀ rātáyaḥ ǁ
aham ǀ ca ǀ tvam ǀ ca ǀ vṛtra-han ǀ sam ǀ yujyāva ǀ sani-bhyaḥ ǀ ā ǀ
arāti-vā ǀ cit ǀ adri-vaḥ ǀ anu ǀ nau ǀ śūra ǀ maṃsate ǀ bhadrāḥ ǀ indrasya ǀ rātayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.062.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.4.41.05
- Maṇḍala · Anuvāka · Ṛk
- 08.07.049
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Pragātha Kāṇva
- Chandas छन्दस्
- Paṅkti, Bṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.