Ṛk 7.31.5
Saṃhitā
मा नो॑ नि॒दे च॒ वक्त॑वे॒ऽर्यो रं॑धी॒ररा॑व्णे ।
त्वे अपि॒ क्रतु॒र्मम॑ ॥
मा नो निदे च वक्तवे ऽर्यो रन्धीर् अराव्णे |
त्वे अपि क्रतुर् मम ||
mā́ no nidé ca váktave’ryó randhīrárāvṇe ǀ
tvé ápi kráturmáma ǁ
mā no nide ca vaktave 'ryo randhīr arāvṇe |
tve api kratur mama ||
Padapāṭha
मा । नः॒ । नि॒दे । च॒ । वक्त॑वे । अ॒र्यः । र॒न्धीः॒ । अरा॑व्णे ।
त्वे इति॑ । अपि॑ । क्रतुः॑ । मम॑ ॥
मा । नः । निदे । च । वक्तवे । अर्यः । रन्धीः । अराव्णे ।
त्वे इति । अपि । क्रतुः । मम ॥
mā́ ǀ naḥ ǀ nidé ǀ ca ǀ váktave ǀ aryáḥ ǀ randhīḥ ǀ árāvṇe ǀ
tvé íti ǀ ápi ǀ krátuḥ ǀ máma ǁ
mā ǀ naḥ ǀ nide ǀ ca ǀ vaktave ǀ aryaḥ ǀ randhīḥ ǀ arāvṇe ǀ
tve iti ǀ api ǀ kratuḥ ǀ mama ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 07.031.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.3.15.05
- Maṇḍala · Anuvāka · Ṛk
- 07.02.113
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Vasiṣṭha Maitrāvaruṇi
- Chandas छन्दस्
- Gāyatrī, Virāj
- Svara स्वरः
- ऋषभः
Text and interpretations from the Ṛgveda database of theveda.org.in.