Ṛgveda · Maṇḍala 7 · Sūkta 31

Ṛk 7.31.12

Indra · Vasiṣṭha Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

इंद्रं॒ वाणी॒रनु॑त्तमन्युमे॒व स॒त्रा राजा॑नं दधिरे॒ सह॑ध्यै ।
हर्य॑श्वाय बर्हया॒ समा॒पीन् ॥

इन्द्रं वाणीर् अनुत्तमन्युम् एव सत्रा राजानं दधिरे सहध्यै |
हर्यश्वाय बर्हया सम् आपीन् ||

índram vā́ṇīránuttamanyumevá satrā́ rā́jānam dadhire sáhadhyai ǀ
háryaśvāya barhayā sámāpī́n ǁ

indraṃ vāṇīr anuttamanyum eva satrā rājānaṃ dadhire sahadhyai |
haryaśvāya barhayā sam āpīn ||

Padapāṭha

इन्द्र॑म् । वाणीः॑ । अनु॑त्तऽमन्युम् । ए॒व । स॒त्रा । राजा॑नम् । द॒धि॒रे॒ । सह॑ध्यै ।
हरि॑ऽअश्वाय । ब॒र्ह॒य॒ । सम् । आ॒पीन् ॥

इन्द्रम् । वाणीः । अनुत्तऽमन्युम् । एव । सत्रा । राजानम् । दधिरे । सहध्यै ।
हरिऽअश्वाय । बर्हय । सम् । आपीन् ॥

índram ǀ vā́ṇīḥ ǀ ánutta-manyum ǀ evá ǀ satrā́ ǀ rā́jānam ǀ dadhire ǀ sáhadhyai ǀ
hári-aśvāya ǀ barhaya ǀ sám ǀ āpī́n ǁ

indram ǀ vāṇīḥ ǀ anutta-manyum ǀ eva ǀ satrā ǀ rājānam ǀ dadhire ǀ sahadhyai ǀ
hari-aśvāya ǀ barhaya ǀ sam ǀ āpīn ǁ

References

Maṇḍala · Sūkta · Ṛk
07.031.12
Aṣṭaka · Adhyāya · Varga · Ṛk
5.3.16.06
Maṇḍala · Anuvāka · Ṛk
07.02.120
Devatā देवता
Indra
Ṛṣi ऋषि
Vasiṣṭha Maitrāvaruṇi
Chandas छन्दस्
Gāyatrī, Virāj
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 7.31.12

Interpretations

Sāyaṇa

मोषुत्वेति सप्तविंशत्यृचं पंचदशं सूक्तं । अत्रेयमनुक्रमणिका-मोषुसप्ताधिका प्रागाथं तृतीया द्विपदा । सौदासैरग्नौ प्रक्षिप्यमाणः शक्तिरंत्यां प्रगाथमालेभे सोर्धर्चउक्ते दह्यततं पुत्रोक्तं वसिष्ठः समापयतेति शाट्यायनकं । वसिष्ठस्यैव हतपुत्रस्यार्षमिति तांडकमिति । मंडलद्रष्टावसिष्ठऋषिः इन्द्रक्रतुंनइति प्रगाथस्यार्धर्चस्य वसिष्ठपुत्रः शक्तिर्वसिष्ठोवा । इन्द्रोदेवता अयुजोबृहत्यः युजः सतोबृहत्यः तृती- यातु द्विपदाविराट् महाव्रते निष्केवल्ये बार्हततृचाशीतावेतत्सूक्तं तत्रद्विपदामभित्वाशूरेत्येतं राथंतरं प्रगाथं नकिःसुदासइति प्रगाथंच वर्जयेत् । तथैव पंचमारण्यके सूत्रितम्-मोषुत्वावाघतश्चनेत्येतस्य द्विपदांचोद्धरति राथंतरंच प्रगाथमथहास्यनकिःसुदासोरथमित्येतं प्रगाथमुद्धृत्य त्वामिदाह्योनर इत्येतं प्रगाथं प्रत्यवदधातीति । चातुर्विंशिकेहनि पंचमेहनिच निष्केवल्ये मोषुत्वावाघतइतिप्रगाथःस- द्विपदः सूत्रितंच-मोषुत्वावाघतश्चनेति सद्विपदउपसमस्येद्विपदामिति । चातुर्विंशिकेहनि मरुत्वतीये प्रकृतान्मरुत्वतीयात्प्रगाथादनन्तरं नकिःसुदासइति प्रगाथंशंसेत् पृष्ठ्याभिप्लवषडहयोस्तृतीयेषष्ठेहनिचायंप्रगाथः तथैवसूत्रितं-नकिःसुदासोराथमिति । मरुत्वतीयादूर्ध्वं नित्यादिति एवंस्थितान् प्रगाथान् पृष्ठ्याभिप्लवयोरन्वहं पुनः पुनरावर्तयेयुरिति । अग्निष्टोमे माध्यंदिनसवनेच्छावाकशस्त्रे उदिन्न्वस्य- रिच्यतइति प्रगाथः । तथाच सूत्रितम्-उदिन्न्वस्यरिच्यते भूयइदिति । अग्निष्टोमेमाध्यंदिनसवने मैत्रावरुणशस्त्रे कस्तमिन्द्रेति प्रगाथः सूत्रितं च-कस्तमिन्द्रत्वावसुं सद्योहजातइति । चातुर्विंशिकेहनि माध्यंदिनसवने मैत्रावरुणशस्त्रस्यायंप्रगाथः अहर्गणेष्वपि द्वितीयादि- ष्वहस्सु सूत्रितंच-कस्तमिन्द्रत्वावसुंकन्नव्योअतसीनामिति आरंभणीयाः पर्यासान् कद्वतोहरहःशस्यानीति होत्रकाइति । पृष्ठ्यषडहस्य तृतीयेहनि निष्केवल्येवैरूपसामपक्षे यदिन्द्रयावतइत्यनुरूपस्तृचः सूत्रितंच-यदिन्द्रयावतस्त्वमिति प्रगाथौस्तोत्रियानुरूपाविति । अग्नि- ष्टोमे निष्केवल्यशस्त्रे रथंतरसामपक्षे अभित्वाशूरेति प्रगाथः स्तोत्रियः सूत्रितंच-अभित्वाशूरनोनुमोभित्वापूर्वपीतयइति स्तोत्रियानु- रूपाविति । आश्विनशस्त्रेप्ययंप्रगाथः तथैवसूत्रितं च-अभित्वाशूरनोनुमोबहवः सूरचक्षसइति प्रगाथाइति । महाव्रते निष्केवल्ये दक्षिण- पक्षेयंप्रगाथः तथैवपंचमारण्यकेसूत्रितम्-अभित्वाशूरनोनुमोभित्वापूर्वपीतयइति रथंतरस्यस्तोत्रियानुरूपौ प्रगाथाविति । आश्विनशस्त्रे इन्द्रक्रतुंनइति प्रगाथः । सूत्रितं च-इन्द्रक्रतुंनआभराभित्वाशूरनोनुमइति । चातुर्विंशेहनि माध्यंदिनेसवने ब्राह्मणाच्छंसिशस्त्रेऽयं वैकल्पि- कः स्तोत्रियःप्रगाथः सूत्रितंच-इन्द्रक्रतुंनआभरेन्द्रज्येष्ठंनआभरेति ।