Ṛk 8.35.12
Saṃhitā
ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिणः॑ प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तं ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥
हतं च शत्रून् यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तम् |
सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ||
hatám ca śátrūnyátatam ca mitríṇaḥ prajā́m ca dhattám dráviṇam ca dhattam ǀ
sajóṣasā uṣásā sū́ryeṇa córjam no dhattamaśvinā ǁ
hataṃ ca śatrūn yatataṃ ca mitriṇaḥ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam |
sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā ||
Padapāṭha
ह॒तम् । च॒ । शत्रू॑न् । यत॑तम् । च॒ । मि॒त्रिणः॑ । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । ऊर्ज॑म् । नः॒ । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥
हतम् । च । शत्रून् । यततम् । च । मित्रिणः । प्रऽजाम् । च । धत्तम् । द्रविणम् । च । धत्तम् ।
सऽजोषसौ । उषसा । सूर्येण । च । ऊर्जम् । नः । धत्तम् । अश्विना ॥
hatám ǀ ca ǀ śátrūn ǀ yátatam ǀ ca ǀ mitríṇaḥ ǀ pra-jā́m ǀ ca ǀ dhattám ǀ dráviṇam ǀ ca ǀ dhattam ǀ
sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ ū́rjam ǀ naḥ ǀ dhattam ǀ aśvinā ǁ
hatam ǀ ca ǀ śatrūn ǀ yatatam ǀ ca ǀ mitriṇaḥ ǀ pra-jām ǀ ca ǀ dhattam ǀ draviṇam ǀ ca ǀ dhattam ǀ
sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ ūrjam ǀ naḥ ǀ dhattam ǀ aśvinā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.035.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.15.06
- Maṇḍala · Anuvāka · Ṛk
- 08.05.097
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Upariṣṭājjyotis, Paṅkti, Mahābṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.