Ṛk 8.35.14
Saṃhitā
अंगि॑रस्वंता उ॒त विष्णु॑वंता म॒रुत्वं॑ता जरि॒तुर्ग॑च्छथो॒ हवं॑ ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥
अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् |
सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ||
áṅgirasvantā utá víṣṇuvantā marútvantā jaritúrgacchatho hávam ǀ
sajóṣasā uṣásā sū́ryeṇa cādityáiryātamaśvinā ǁ
aṅgirasvantā uta viṣṇuvantā marutvantā jaritur gacchatho havam |
sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā ||
Padapāṭha
अङ्गि॑रस्वन्तौ । उ॒त । विष्णु॑ऽवन्ता । म॒रुत्व॑न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव॑म् ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ॒दि॒त्यैः । या॒त॒म् । अ॒श्वि॒ना॒ ॥
अङ्गिरस्वन्तौ । उत । विष्णुऽवन्ता । मरुत्वन्ता । जरितुः । गच्छथः । हवम् ।
सऽजोषसौ । उषसा । सूर्येण । च । आदित्यैः । यातम् । अश्विना ॥
áṅgirasvantau ǀ utá ǀ víṣṇu-vantā ǀ marútvantā ǀ jaritúḥ ǀ gacchathaḥ ǀ hávam ǀ
sa-jóṣasau ǀ uṣásā ǀ sū́ryeṇa ǀ ca ǀ ādityáiḥ ǀ yātam ǀ aśvinā ǁ
aṅgirasvantau ǀ uta ǀ viṣṇu-vantā ǀ marutvantā ǀ jarituḥ ǀ gacchathaḥ ǀ havam ǀ
sa-joṣasau ǀ uṣasā ǀ sūryeṇa ǀ ca ǀ ādityaiḥ ǀ yātam ǀ aśvinā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 08.035.14
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 6.3.16.02
- Maṇḍala · Anuvāka · Ṛk
- 08.05.099
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Śyāvāśva Ātreya
- Chandas छन्दस्
- Upariṣṭājjyotis, Paṅkti, Mahābṛhatī
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.